पूर्वम्: ३।२।१२३
अनन्तरम्: ३।२।१२५
 
प्रथमावृत्तिः

सूत्रम्॥ लटः शतृशनचावप्रथमासमानाधिकरणे॥ ३।२।१२४

पदच्छेदः॥ लटः ६।१ १२६ शतृ-शानचौ १।२ १२६ अप्रथमा-समानाधिकरणे ७।१ वर्त्तमाने ७।१ १२३ धातोः ५।१ ?

समासः॥

शतृ च शानच् च, शतृ-शानचौ, इतरेतरद्वन्द्वः। प्रथमया समानाधिकरणं, प्रथमासमानाधिकरणं, तृतीयातत्पुरुषः। न प्रथमासमानाधिकरणं, अप्रथमासमानाधिकरणं, तस्मिन् ॰ नञ्तत्पुरुषः।

अर्थः॥

धातोः लटः स्थाने शतृशानचौ आदेशौ वर्त्तमाने काले भवतः, प्रथमान्तेन चेत्, तस्य सामानाधिकरण्यं न स्यात्।

उदाहरणम्॥

पचन्तं देवदत्तं पश्य। पचमानं देवदत्तं पस्य। पठता कृतम्। आसीनाय देहि।
काशिका-वृत्तिः
लटः शतृशानचावप्रथमासमानाधिकरणे ३।२।१२४

लटः शतृशानचौ इत्येतावादेशौ भवतः, अप्रथमान्तेन चेत् तस्य सामानाधिकरण्यं भवति। पचन्तं देवदत्तं पश्य। पचमानं देवदत्तं पश्य। पचता कृतम्। पचमनेन कृतम्। अप्रथमासमानाधिकरणे इति किम्? देवदत्तः पचति। लटिति वर्तमने पुनर् लङ्ग्रहणम् अधिकविधानार्थम्। क्वचित् प्रथमासमानाधिकरणे ऽपि भवति। सन् ब्राह्मणः। अस्ति ब्राह्मणः। विद्यमानः ब्राह्मणः। विद्यते ब्राह्मणः। जुह्वत्। जुहोति। अधीयानः। अधीते। माङ्याक्रोशे। मा पचन्। मा पचमानः। केचिद् विभाषाग्रहणम् अनुवर्तयन्ति नन्वोर् विभाषा ३।२।१२१ इति। सा च व्यवस्थिता। तत्र यथादर्शनं प्रयोगा नेतव्याः।
लघु-सिद्धान्त-कौमुदी
लटः शतृशानचावप्रथमासमानाधिकरणे ८३४, ३।२।१२४

अप्रथमान्तेन समानाधिकरणे लट एतौ वा स्तः। शबादि। पचन्तं चैत्रं पश्य॥
न्यासः
लटः शतृशानचावप्रथमासमानाधिकरणे। , ३।२।१२४

शतृशानचोः शकारौ सार्वधातुकार्थौ। ऋकार उगित्कार्यार्थः। अप्रथमासमानाधिकरण इति पर्युदासोऽयम्। प्रथमाशब्दोऽयं विभक्तिविशेषे सोरौजस्पर्य्नते शास्त्रे रूढः। प्रथमाया अन्या द्वितीयादिका विभक्तिः = अप्रथमा। समानशब्दोऽयं साधारणवचनः, यथा-- देवदत्तयज्ञदत्तौ समानधनावित। अधिकरणशब्दोऽयमभिधेयवचनः समानञ्च तदधिकरणञ्चेति कर्मधारयः। अप्रथमया समानाधिकरणम् = अप्रथमासमानाधिकरणम्। "तृतीया" २।१।२९ इतियोगविभागात् समासः। ततः "यस्य च भावेन भावलक्षणम्" २।३।३७ इति सप्तमी। अप्रथमासमानाधिकरणभावेन शतृशानचोर्भावो लक्ष्यते। अप्रथमेति पर्युदासवृत्त्या द्वितीयादेर्विभक्तेग्र्रहणम्, तेन प्रत्ययग्रहणपरिभाषया तदन्तविधिर्भविष्यतीत्याह-- "अप्रथमान्तेन चेत्" इत्यादि। "तस्य" इति। लटः। सामानाधिकरण्यम्" इति। समानाभिधेयमिति। यदि द्वितीयान्तेन शब्देन सामानाधिकरण्यम् = समानाभिधेयत्वं सम्भवत्येवं शतृशानचौ भवतः, नान्यथेति वाक्यार्थः। एवं विवृम्वताऽप्रथमासमानाधिकरणेऽत्र पर्युदास आश्रितः, न प्रसज्यप्रतिषेध इति दश्र्यते, अन्यथा हि यदि प्रसज्यप्रतिषेध आश्रितः स्यात् प्रथमान्तेन चेत सामानाधिकरण्यं न भवतीत्येवं ब्राऊयात्। किं पुनः स्याद्यदि प्रसज्यप्रतिषेध आश्रितः? अप्रथासमानाधिकरण उत्तरपदे शतृशानचौ न स्याताम्-- भज्यत इति भक्तिः, कुर्वन् भक्तिरस्य कुर्वद्भक्तिः, कुर्वाणो भक्तिरस्य कुर्वाणभक्तिः। ये च प्रथमासमानाधिकरणवृत्तयस्तद्धितास्तेषु न स्याताम्-- "प्रशंसायां रूपप्"५।३।६६ कुर्वद्रूपम्, कुर्वाणरूपमिति; "ईषदसमाप्तौ कल्पशब्देश्यदेशीयरः" ५।३।६७ कुर्वत्कल्पः। ननु पर्युदासेऽपि भवत्येव दोषः, न ह्रत्राप्रथमान्तेन क्वचित् प्रथमासमानाधिकरणेऽपि भवत इति। प्रसज्यप्रतिषेधे तु प्रतिषेधं विधाय प्रतिषिद्धस्य च पुर्विधानमयुक्तम्। "पचन्तं देवदत्तं पश्य" इति। द्वितीयान्तेन सामानाधिकरण्यं दर्शयति। "पचता" इति। तृतीयान्तेन। विभक्तेर्विपरिणामं कृत्वा देवदत्तेनेति सम्बन्धात्। ननु च लडादेशस्यात्राप्रथमान्तेन सामानाधिकरण्यम्, न लटः; तस्य प्रयोगाभावात्। आदेशधर्मस्य स्थानिन्युपचारात् लटोऽप्युपचारितं सामानाधिकरण्यं भवतीत्यदोषः।अथ लड्ग्रहणं किमर्थम्, यावताऽनन्तरसूत्राल्लडित्यनुवत्र्तत एव? स्यादेतत्; प्रथमान्तञ्चैतत्। षष्ठीनिर्देशेन चेहार्थः, तस्मात् षष्ठीनिर्देशार्थ पुनर्लड्()ग्रहणं कत्र्तव्यमिति, एतच्चायुक्तम्,प्रथमान्तस्यापि लड्()ग्रहमस्यार्थद्विभक्तिविपरिणामो भविष्यतीति षष्ठ()न्तं विज्ञास्यत इत्यत आह-- "लडिति वत्र्तमाने" इत्यादि। अप्रथमासमानाधिकरणे पुनर्लड्()ग्रहणम्। तेन क्वचित् प्रथमासमानाधिकरणे भवतः-- कुर्वन् ब्राआहृणः। "सन् ब्राआहृणः" इति। "अस भुवि" (धा।पा।१०६५), अदादित्वाच्छपो लुक्। "श्नसोरलोपः" ६।४।१११, इत्यकारलोपः। "विद्यमानः" इत्यादौ सर्वत्र ब्राआहृण इत्यपेक्षते। "विद सत्तायाम्" (धा।पा।११७१), दिवादिरात्मनेपदी, श्यन्। "जुह्वत्" ७।१।७८ इति। "हु {दानादनयोः (आदाने इत्येके प्रीणनेऽपि इति भाष्यम्) -धा।पा।} दाने"(धा।पा।१०८३), "हुश्नुवोः सार्वधातुके" ६।४।८७ इति यणादेशः, "नाभ्यस्ताच्छतुः ७।१।७८ इति नुमागमाभावः। "अधीयानः"इति। "इङ अध्ययने" (धा।पा।११०४६), अधिपूर्वः। पूर्ववत् "अचिश्नु"६।४।७७ इत्यादिना इयङ। "माङ्याक्रोशे" इति। माङ्युपपद आक्रोशे गम्यमाने लटः शतृशानचौ भवतः। "मा पचन्, मा पचमानः" इति। ननु चात्रैव माङि लुङा भवितव्यम्, एतस्मादेवाधिकविधानात्? पुनर्लड्()ग्रहणादाक्रोशे न भवतीत्यदोषः। "माङि लुङ" ३।३।१७५ इत्यस्य यत्राक्रोशे नास्ति सोऽवकाशः। "केचिद्विभाषाग्रहणमनुवत्र्तयन्ति" इति। सन् ब्राआहृणोऽस्ति ब्राआहृण इत्यादौ विकल्पेन शतृशानचौ यथा स्यातामित्येवमर्थम्। केचिदिति वचनात् केचिन्नानुवत्र्तयन्तीत्युक्तं भवति। तेषामयमभिप्रायः-- यदि प्रथमासमानाधिकरणे नित्यं तौ भवतस्तदाऽप्रथमासमानाधिकणग्रहणं न कुर्यात्, "शतृशानचौ"इत्येवं ब्राऊयात्। तत्राप्ययमर्थः-- सामान्येन प्रथमासानाधिकरणेऽन्यत्र शतृशानचोर्विधानात् पुनग्र्रहणं न कत्र्तव्यं भवति। तस्मादप्रथमासमानाधिकरणग्रहणसामथ्र्यादप्रथमासमानधिकरण एव नित्यौ तौ भवतः, प्रथमासमानादिकरणेष्वन्यथेति। यदि तर्हि विभाषाग्रहणमनुवत्र्तयन्ति, यथा सन् ब्राआहृणः, अस्ति ब्राआहृणः, विद्यमानो ब्राआहृणः,विद्यते ब्राआहृण इत्यादौ विकल्पेन भवतः; तथा कुर्वद्भक्तिः कुर्वाणभक्तिरित्येवमादावपि स्यातामित्यत आह--"सा च" इत्यादि। "तत्र" इति। व्यवस्थितविभाषयां सत्याम्। "यथादर्शनम्" इति। यथा लक्ष्यस्य दर्शनं तदनुरूपाः प्रयोगा उन्नेयाः। एतदुक्तं भवति-- लक्ष्यदर्शनवत् स्यात्। क्वचिन्नित्यं तौ शतृशानचौ वेदितव्यौ, क्वचित् पाक्षिकौ,क्वचिदविद्यमानाविति। तत्र कुर्वद्भक्तिः, कुर्वाणभक्तिः, कुर्वत्तरः, कुर्वत्तम इत्यादौ नित्यम् ; सन् ब्राआहृणः , अस्ति ब्राआहृण इत्यादौ पाक्षिकौ; तरप्तमवादिप्रत्यये परे तावविद्यमानावेव। "पचतितराम" इति। पचतिशब्दात् "तिङश्च" ५।३।५६ इति तरप्, "किमेत्"५।४।११ इत्यादिनामि कृते न भवतः॥
बाल-मनोरमा
लटः शतृशानचावप्रथमासमानाधिकरणे ९०२, ३।२।१२४

लटः शतृशानचौ। "वर्तमाने ल"डिति पूर्वसूत्रविहितस्यैव एतौ शतृशानचौ, अनन्तरस्येति न्यायादिति "वर्तमानसामीप्ये" इत्यादिभाष्ये स्पष्टम्। शतृप्रत्यये शकारऋकारावितौ। पचन्तमिति। पाकानुकूलव्यापाराश्रयमित्यर्थः, "क्रियाप्रधानमाख्यातं, सत्त्वप्रधानानि नामानि"ति सिद्धान्तात्। शतुः शित्त्वेन सार्वधातुकच्छपि "अतो गुणे" इति पररूपम्। शानचि शाचवितौ।

तत्त्व-बोधिनी
लटः शतृशानचावप्रथमासमानाधिकरणे ७४३, ३।२।१२४

लटः शतृ। सामनाधिकरण्ये सतीति। यद्यप्यादेशरहितस्य लटः प्रयोगाऽभावात्सामानाधिकरण्यं दुर्लभं तथापि शतृशानचोस्तद्दृष्ट्वा स्थानिन्यपि सामानाधिकरण्यं कल्प्यते। शबादीति। शित्त्वेन सार्वधातुकत्वादिति भावः। पचन्तमिति। शतुरुगित्त्वान्नुम्। विक्लित्त्यनुकूलवर्तमानव्यापाराश्रयमित्यर्थः।