पूर्वम्: ३।२।१३४
अनन्तरम्: ३।२।१३६
 
सूत्रम्
तृन्॥ ३।२।१३५
काशिका-वृत्तिः
तृन् ३।२।१३५

सर्वधातुभ्यः तृन्प्रत्ययो भवति तच्छीलादिषु कर्तृषु। नकारः स्वरार्थः। तच्छीले तावत् कर्ता कटान्। वदिता जनापवादान्। तद्धर्मणि मुण्डयितारः श्राविष्ठायनाः भवन्ति वधूमूढाम्। अन्नमपहर्तारः आह्वरकाः भवन्ति श्राद्धे सिद्धे। उन्नेतारः तौल्वलायनाः भवन्ति पुत्रे जाते। तत्साधुकारिणि कर्ताकटम्। गन्ता खेटम्। तृन्विधावृत्विक्षु च अनुपसर्गस्य। होता। पोता। अनुपसर्गस्य इति किम्? उद्गाता। प्रतिहर्ता। तृजेव भवति। स्वरे विशेषः। नयतेः षुक् च। नेष्टा। त्विषेर् देवतायाम् अकारश्च उपधाया अनिट्त्वं च। त्वष्टा। क्षदेश्च नियुक्ते। क्षत्ता। क्वचिदधिकृत उच्यते। छन्दसि तृच् च। क्षतृभ्यः सङ्ग्रहीतृभ्यः। स्वरे विशेषः।
न्यासः
तृन्। , ३।२।१३५

"मुण्डयितारः" इति। मुण्डां कुर्वन्तीति "मुण्डमिश्र" ३।१।२१ इत्यादिना णिच्, इष्ठवद्भावेन टिलोपः। "{मुण्डयितारः श्राविष्ठायना भवन्ति बधूमूढाम्"--काशिका।} वधूमूढां श्राविष्ठायना मुण्डयन्ति" इति। एतेषां कुलधर्मः। "आह्वरकाः श्राद्धे सिद्धेऽन्नमपहरन्ति" इति। एतेषामाचारः। यः कटं साधु करोतीति स कत्र्ता कटमिति। खेटं यो लीलया गच्छति स साधु गच्छति। "तृन्विधौ" इत्यादि। अताच्छील्यार्थ आरम्भः। अ()स्मस्तृन्विधावनुपसर्गस्य धातोस्तृन् वक्तव्य ऋत्विक्ष्वभिधेयेषु। "होता" इति। "हु {दानादनयोः। आदाने इत्येके।प्रीणनेऽपि इति भाष्यम्-- धा।पा।} दाने" (धा।पा।१०८३)। "पोता" इति। "पूङ पवने" (धा।पा।९६६)। "उद्गाता" इति। "कै गै शब्दे" (धा।पा।९१६,९१७)।"स्वरे विक्षेषः" इति। तृचि सति "गतिकारकोपपदात् कृत्" ६।२।१३८ इति प्रकृतिस्वरेणान्तोदात्तत्वं भवति, तृनि तु सति "गतिरनन्तरः" ६।२।४९ इत्यनुवत्र्तमाने" "तादौ च निति कृत्यतौ" ६।२।४९ इति पूर्ववदस्य प्रकृतिस्वरः प्रसज्येत। "नयतेः षुक् च" इति। कृते गुणे षुगागमो वेदितव्यः; अन्यथा ह्रलघूपधत्वाद्()गुणो न स्यात्। गुणोऽपि वा वक्तव्यः। अत्र ऋत्विगिति वत्र्तते। अयमप्यताच्छील्यार्थ आरम्भः। "त्विषेःट इत्यादि। "त्विष दीप्तौ" (धा।पा।१००१) इत्यस्माद्देवतायामभिधेयां तृन् वक्तव्यः, अकारश्चोपधाया आदेशो भवति। "अनिट्()त्वं च"इति। एतस्य सर्वशेषत्वे चास्य पोतेत्यत्रानिट्()त्वं सिद्धं भवति। "क्षदेः"इत्यादि। "क्षद"इति सौत्रो धातुः। "गुधृवीपचिवयियमिसदि क्षदिभ्यस्त्रः"(पं।उ।४।१६६) इत्याद्युणादिसूत्रपाठात्। उणादिषु निपातितत्वात् होत्रादय इति सिद्धम्। तत्र हि "नप्तृनेष्टृत्वष्टृक्षतृपोतृहोतृभ्रातृजामातृपितृदुहितृ" (द।उ।२।३।) इत्येते निपातिताः॥
बाल-मनोरमा
तृन् ९१७, ३।२।१३५

तृन्। धातोस्तृन्प्रत्ययः स्यात्तच्छीलादिषु कर्तृषु। तच्छीले उदाहरति-- कर्ता कटमिति। कटकरणक्रियाशील इत्यर्थः। "न लोके"ति षष्ठीनिषेधः, "न लोके"ति सूत्रे "तृ"न्नित्यनेन "लटः शत" इत्यारभ्य एतत्सूत्रस्थनकारेण प्रत्याहारश्रयणात्। तद्धर्मणि यथा-- "मुण्डयितारः श्राविष्ठायना भवन्ति ऊढां वधूम्()"। श्राविष्ठायना नाम देशविशेषीया वधूमुण्डनं स्वधर्म इत्यनुष्ठातार इत्यर्थः। तत्साधुकारिणि "कर्ता कट"मित्येवोदाहरणम्।कटं साधु करोतीत्यर्थः।