पूर्वम्: ३।२।१३५
अनन्तरम्: ३।२।१३७
 
सूत्रम्
अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मद- रुच्यपत्रपवृतुवृधुसहचर इष्णुच्॥ ३।२।१३६
काशिका-वृत्तिः
अलङ्कृञ्निराकृञ्प्रजनौत्पचौत्पतौन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच् ३।२।१३६

अलङ्कृञादिभ्यो धातुभ्यः तच्छीलादिषु कर्तृषु इष्णुच् प्रत्ययो भवति। अलङ्करिष्णुः। निराकरिष्णुः। प्रजनिष्णुः। उत्पचिष्णुः। उत्पतिष्णुः। उन्मदिष्णुः। रोचिष्णुः। अपत्रपिष्णुः। वर्तिष्णुः। वर्धिष्णुः। सहिष्णुः। चरिष्णुः। अलङकृञो मण्डनार्थाद् युचः पूर्वविप्रतिषेधेनेष्णुज् वक्तव्यः
न्यासः
अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच्। , ३।२।१३६

अलम्पूर्वः करोतिः, पुनः स एव निराङपूर्वः, "जनी प्रादुर्भावे" (धा।पा।११४९) प्रपूर्वः;"{पचि धा।पा।} पच व्यक्तीकरण" (धा।पा।१७४);"पद गतौ" (धा।पा।१८९८), पतिमन्ये पठन्ति;"शल हुल पत्लृ गतौ" (धा।पा।८४३,८४४,८४५)। "{मदी हर्षग्लेपनयोः"-धा।पा।)मदी तृप्तिसाधने" (धा।पा।८१५)-- एते पदादय उत्पूर्वाः। "रुच {दीप्तवभिप्रीतौ च" -धा।पा।} दीप्तौ" (धा।पा।७४५); "त्रपूष् लज्जायाम्" (धा।पा।३७४) अपपूर्वः, "वृतु वत्र्तने" (धा।पा।७५८), "वृधु वृद्धौ" (धा।पा।७५९), "षह मर्षणे" (धा।पा।१८०९), "चर गत्यर्थः" (धा।पा।५५९)-- एभ्य इष्णुज् भवति, {तृणोऽपवादः इति, मु।पाठः} तृनोऽपवादः। यदा त्वलम्पूर्वः करोतिर्मण्डने वत्र्तते, तदा "क्रुधमण्डार्थेभ्यश्च" (३।२।१५१) इति युच् प्राप्नोति;पूर्वविप्रतिषेधश्च वक्तव्यः; अन्यथा मण्डनादन्यत्र सावकाशमिष्णुचं परत्वाद्बाधते। येऽत्र सोपसर्गाः पठ()न्ते, तेभ्य एतदुपसर्गपूर्वेभ्य एव भवति, अन्येभ्यस्त्वनियमेन॥
बाल-मनोरमा
अलङ्कृञनिराकृञ्?प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुधुसहचर इष्णुच् ९१८, ३।२।१३६

अलङ्कृढञ्। अलङ्कृञ्, निराकृञ्, प्रजन, उत्पच, उत्पत, उन्मद, रुचि, अपत्रप, वृतु, वृधु, सह, चर एषां द्वादशनां द्वन्द्वात्पञ्चमी। एभ्यस्तच्छीलादिषु कर्तृषु इष्णुच् स्यात्। इत्यादीति। निराकरिष्णुः, प्रजनिष्णुः, उत्पचिष्णुः, उत्पतिष्णुः, उन्मदिष्णुः, रोचिष्णुः, अपत्रपिष्णुः, वर्तिष्णुः, वर्धिष्()णुः, सहिष्णुः, चरिष्णुः।

तत्त्व-बोधिनी
अलङ्कृञनिराकृञ्?प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच् ७५३, ३।२।१३६

अलङ्कृञ्। कृञिति डुकृञ् करण इत्यस्यैव ग्रहणं न तु कृञ् हिंसायामित्यस्य , "प्रसिद्धाऽप्रसिद्धयोः प्रसिद्धस्यैव ग्रहण"मिति न्यायात्। निराङ्पूर्वोऽपि कृञ् स एव। प्रपूर्वो जनी प्रादुर्भावे। इह डुपचष् पाके, पत्लृ गतौ, मदी हर्षे, एते त्रयोऽपि उत्पूर्वाः पठ()न्ते। तत्र "उदः पचपतमद" इत्येव वक्तव्ये प्रत्येकमुत्पूर्वसय् पाठ उपसर्गान्तरनिवृत्त्यर्थस्तेन समुत्पतिष्णुरित्यादि न भवतीत्याहुः। रुच दीप्तौ। अपपूर्वः त्रपूष् लज्जायाम्, वृतु वर्तने, वृधु वृद्धौ,षह मर्षणे,चर गतौ। इत्यादीति। आदिशब्दग्राह्रास्तु निराकरिष्णुः, प्रजनिष्णुः, उत्पचिष्णुः,उत्पत्तिष्णुः, उन्मदिष्णुरिति। "उत्पतिष्णूसहिष्णू च चेरतुः खरदूषणौ" इति भट्टिः। कालिदासोऽप्याह-- "फलानामुत्पत्तिष्णवः"इति। केचित्तुः-- पत इत स्थाने दान्तं सूत्रे पठित्वा पद गतावित्यस्मात्प्रत्ययमाहुः। उन्मदिष्णुः, रोचिष्णुः, अपत्रपिष्णुः, वर्तिष्णुः, चरिष्णुः।