पूर्वम्: ३।२।१३७
अनन्तरम्: ३।२।१३९
 
सूत्रम्
भुवश्च॥ ३।२।१३८
काशिका-वृत्तिः
भुवश् च ३।२।१३८

भवतेर् धतोः छन्दसि विषये तच्छीलादिषु इष्णुच् प्रत्ययो भवति। भविष्णुः। योगविभागः उत्तरार्थः। चकारो ऽनुक्तसमुच्चयार्थः। भ्राजिष्णुना लोहितचन्दनेन।
न्यासः
भुवश्च। , ३।२।१३८

"योगविभाग उत्तरार्थः" इति। उत्तरसूत्रे भवतरेवानुवत्र्तनं यथा स्यात्; अन्यथा यदि "णिभूभ्याञ्च" इत्येको योगः क्रियते तदा णिग्रहणमप्यनुकृष्येत। "भाजिष्णुना" इत्याद। लौकिकप्रयोगः। तस्योपन्यासो भाषायामपि "भ्राजृ दीप्तौ" (धा।पा।१८१) इत्येतस्मादिष्णुच्प्रदर्शनार्थः॥
बाल-मनोरमा
भुवश्च ९२०, ३।२।१३८

भुवश्च। छन्दसीत्येवेति। भूधातोरिष्णुच् स्यात्तच्छीलादिषु छन्दसीत्यर्थ-। अण्यन्तार्थ आरम्भः।

तत्त्व-बोधिनी
भुवश्च ७५५, ३।२।१३८

नैतदिति। चकारस्याऽनुक्तसमुच्चयार्थत्वमित्यर्थः।