पूर्वम्: ३।२।१४३
अनन्तरम्: ३।२।१४५
 
सूत्रम्
अपे च लषः॥ ३।२।१४४
काशिका-वृत्तिः
अपे च लषः ३।२।१४४

लष कान्तौ, अस्माद् धातोः अप उपपदे, चकाराद् वौ च घिनुण् भवति। अपलाषी। विलाषी।
न्यासः
अपे च लषः। , ३।२।१४४

बाल-मनोरमा
अपे च लषः ९२६, ३।२।१४४

अपे च लषः। चाद्वाविति। वौ उपपदेऽपीत्यर्थः। अपे वौ च उपपदे लषोर्घिनुणित्यर्थः। ताच्छील्यादिष्वेव।