पूर्वम्: ३।२।१४५
अनन्तरम्: ३।२।१४७
 
सूत्रम्
निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादि- व्याभाषासूयो वुञ्॥ ३।२।१४६
काशिका-वृत्तिः
निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादिव्याभाषासूयो वुञ् ३।२।१४६

निन्दाऽदिभ्यो धातुभ्यः तच्छीलादिषु कर्तृषु वुञ् प्रतयो भवति। पञ्चम्यर्थे प्रथमा। क्लिश उपतापे, क्लिशू विबाधने। द्वयोरपि ग्रहणम्। निन्दकः। हिंसकः। क्लेशकः। खादकः। विनाशकः। परिक्षेपकः। परिराटकः। परिवादकः। व्याभाषकः। असूयकः। ण्वुलैव सिद्ध वुञ्विधानं ज्ञापनार्थं, ताच्छीलिकेषु वा ऽसरूपन्यायेन तृजादयो न भवन्ति इति।
न्यासः
निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादिव्याभाषासूयो वुञ्। , ३।२।१४६

"णिदि कुत्सायाम्" (धा।पा।६६), "अर्द हिसि हिंसायाम्" (धा।पा।१८२८, १८२९), "खादृ भक्षणे" (धा।पा।४९), "णश अदर्शने" (धा।पा।११९४) विपूर्वः, हेतुमण्ण्यन्तः। "क्षिपिः"पूर्वोक्त एव, एवं रटिर्वदिः परिपूर्वो हेतुमण्ण्यन्तः, "भाव व्यक्तायां वाचि (धा।पा।६१२) व्याङपूर्वः। "असूय" इति कण्डवादियगन्तस्य ग्रहणम्। अत्र क्लिशेरुपतापार्थस्य भाषतेश्च "अनुदात्तेश्च हलादेः" ३।२।१४९ इति युचि प्राप्ते वुञ्चिधानम्। शेषेभ्यस्तु तृनि। ननु "परश्च" ३।१।२ इति दिग्योगलक्षणया पञ्चम्या भवितव्यम्, यथा वृत्तौ -- निन्दादिभ्यो धातुभ्यः" इति, तत्कथं सूत्रे प्रथमेत्यत आह-- "पञ्चम्यर्थे प्रथमा" इति। "व्यत्ययो बहुलम्" ३।१।८५ इतिसुब्व्यत्ययेनेति भावः। समाहारद्वन्द्वाच्च प्रथमैकवचनम्, पुंल्लिङ्गं तु व्यत्ययेन। "असूयकः"इति। "अतो लोपः" ६।४।४८ इत्यकारलोपः। अथ किमर्थं निन्दादिभ्यो धातुभ्यो वुञ् विधीयते, यावता वाऽसरूपविधिनैव निन्दकादयः,सिद्धाः, तदेव हि रूपम्, स एव स्वरः, इहैवैकत्र स्वरविशेषोऽस्ति-- असूयक इति, अत्र वुञि सति ञित्वादादेरुदात्तत्वं भवति, ण्वुलि तु सति लित्प्रत्ययात् पूर्वस्य स्यात्, तस्मादसूयतेरेवैकस्माद्()वुञ्, विधातव्यः, नेतरेभ्यो निन्दादिभ्य इत्यत आह-- "ण्नुलैव सिद्धे"इत्यादि। यदि तच्छीलादिषु वाऽसरूपविधिना तृजादयोऽपि स्युः निन्दादिभ्यो वुञ् न विदध्यात्, विहितश्चासौ, अत एव वुञ्विधानं ज्ञापयति-- तच्छीलादिषु वाऽसरूपविधिर्नास्तीति। तेनालङ्कारकः, निराकत्र्तेत्यादीनां तच्छीलादिषु साधुत्वं न भवति॥
बाल-मनोरमा
निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादिव्याभाषाऽसूयो वुञ् ९२८, ३।२।१४६

निन्दहिंस। निन्द, हिंस, क्लिश, खाद, विनाश, परिक्षिप, परिरट, परिवादि, व्याभाष, असूय एषां दशानां द्वन्द्वः। पञ्चम्यर्थे प्रथमेति। सौत्रं पुंस्त्वमेकवचनं वेति भावः। विनाशेति-- विपूर्वस्य नशेण्र्यन्तस्य भाविना णिलोपेन निर्देशः। शकारादकार उच्चारणार्तः। केचित्तु "विनाशी"ति ण्यन्तमेव पठन्ति। परिवादीति-- तु ण्यन्तमेव। असूयेति-- कण्ड्वदियगन्तः। इत्यादीति। क्लेशकः, खादकः,विनाशकः, परिक्षेपकः, परिराटकः, परिवादकः, व्याभाषकः, असूयकः। ननु "असूयो वु"ञिति असूयतेरेव वुञ्विधीयतां , न तु निन्दादिभ्योऽपि, तेषां ण्वुलैव सिद्धेः। लित्स्वरञित्स्वरयोस्तु नास्ति विशेषः, उभयथाप्याद्युदात्तत्वात्। असूयतेस्तु ण्वुलि "लिती"ति प्रत्ययात्पूर्वं उकार उदात्तः। वुञि तु "ञ्नित्यादिर्नित्य"मिति धातोरकार उदात्त इति विशेषः। तस्मादसूयतेरेव वुञ्विधिरिति युक्तमित्यत आह-- ण्वुला सिद्धे इति। तृजादयो नेतीति। तच्छीलादिषु वासरूपविदिस्त्तवे हि तद्विषये तृनि प्राप्ते वुञ्विधिरर्थवान्। अतस्तच्छीलादिषु वासरूपविधिर्न प्रवर्तत इति भावः। इदं च प्रायिकम्। तत्फलं तु ऊत्पूर्वान्मदेरलङ्कृञादिसूत्रेण इष्णुजुक्तो, वासरूपविधिना घिनुणपीति मूल एवानुपदमुक्तम्।

तत्त्व-बोधिनी
निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादिव्याभाषाऽसूयो वुञ् ७६२, ३।२।१४६

निन्दहिंस। इह सूत्र विनाशेति विपूर्वस्य नशेण्र्यन्तस्य पाठो निर्विवाद एव। असूयतिः कण्ड्वादियगन्तः, निन्दादीनामसूयान्तानां समाहारद्वन्द्वे सौत्रं पुस्त्वम्। स्यादेतत्-- असूयतेरेव वुञ् विधेयो नेतरेभ्यः निन्दादीनां निन्दादीनां ण्वुलैव सिद्धेः। न हि तत्र लित्स्वरनित्स्वरयोर्विशेषोऽस्ति, उभयथाप्याद्युदात्तत्वात्। असूयतेस्तु ण्वुलि "लिती"ति प्रत्ययात्पूर्वमुदात्तं, वुञि तु "ञ्नित्यादिर्नित्य"मित्यादिरुदात्त इति विशेषः। तत्राह --ण्वुलेति। तृजादयो नेति। नेदं ण्वुल्विषयकमेव ज्ञापकं किंतु सामान्यतः प्रत्ययमात्रविषयकमित्यर्थः।