पूर्वम्: ३।२।१४७
अनन्तरम्: ३।२।१४९
 
सूत्रम्
चलनशब्दार्थादकर्मकाद्युच्॥ ३।२।१४८
काशिका-वृत्तिः
चलनशब्दार्थादकर्मकाद् युच् ३।२।१४८

चलनार्थेभ्यः शब्दार्थेभ्यश्च अकर्मकेभ्यो धातुभ्यस् तच्छीलादिषु कर्तृषु युच् प्रत्ययो भवति। चलनः। चोपनः। शब्दार्थभ्यः शब्दनः। रवणः। अकर्मकातिति किम्? पठिता विद्याम्।
न्यासः
चलनशब्दार्थादकर्मकाद्युच्। , ३।२।१४८

चलनं देशान्तरप्राप्तिहेतुः क्रियाविशेषः। शब्दः श्रोत्रविषोऽर्थः। "चलनः, चोपनः" इति। "चल कम्पने" (धा।पा।८३२),"चुप मन्दायां गतौ" (धा।पा।४०३)। "शब्दनः" इति। "शब्द {उपसर्गादाविष्कारे भाषणे च"-- धा।पा।}शब्दने उपसर्गा विष्कारे " (धा।पा।१७१४) इति चौरादिकः। अथ वा-- "प्रतिपदिकाद्धात्वर्थे बहुलम्" (ग।सू।१८६० चुरादिः- १९१५) इत्यादिना णिच्, "शब्दवैरकलह" ३।१।१७ इत्यादिना णिजन्ताद्युच्। "रवणः"इति। "रु शब्दे" (धा।पा।१०३४)॥
बाल-मनोरमा
चलनशब्दार्थादकर्मकाद्युच् ९३०, ३।२।१४८

चलन। शब्दन इति। "शब्द शब्दने" चुरादिः। शब्दनं - शब्दोच्चारणम्। धात्वर्थोपसङ्ग्रहादकर्मकः।

तत्त्व-बोधिनी
चलनशब्दार्थादकर्मकाद्युच् ७६४, ३।२।१४८

चलनशब्दार्था। चल कम्पने, चुप मन्दायां गतौ, कपि चलने,शब्द शब्दने चुरादिः, रु शब्दे। चलन इत्यादि। "युवो"रित्यनादेशः।