पूर्वम्: ३।२।१४९
अनन्तरम्: ३।२।१५१
 
सूत्रम्
जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः ॥ ३।२।१५०
काशिका-वृत्तिः
जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः ३।२।१५०

जुप्रघृतिभ्यो धतुभ्यो युच् प्रत्ययो भवति तच्छीलादिषु कर्तृषु। जु इति सौत्रो धतुः। जवनः। चङ्क्रमणः। दन्द्रमणः। सरणः। गर्धनः। ज्वलनः। शोचनः। लषणः। पतनः। पदनः। चलनार्थानां पदेश्च ग्रहणं सकर्मकार्थम् इह। ज्ञापनार्थं च पदिग्रहणम् अन्ये वर्णयन्ति, ताच्छीलिकेषु मिथो वा असरूपविधिर् न अस्ति इति। तेन अलङ्कृञः तृन् न भवति अलङ्कर्ता इति। तथा हि पदेरुकञा विशेषविहितेन सामान्यविहितस्य युचो ऽसरूपत्वात् समावेशो भवेदेव, किम् अनेन विधानेन? ज्ञापनार्थं पुनर् विधीयते। प्रायिकं च एतद् ज्ञापकम्। क्वचित् समावेश इष्यत एव, गन्ता खेटं विकत्थनः।
न्यासः
जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः। , ३।२।१५०

"जवनः"इति। "जु" सौत्रौ धातुः; गतौ वत्र्तत इत्येके। विशेषहेतौ वेग इत्यपरे। "चंक्रमणः, दन्द्रमणः"इति। "क्रमु पादविक्षेपे" (धा।पा।४७३)। "द्रम हम्म गतौ" (धा।पा।४६६, ४६७), "नित्यं कौटिल्ये गतौ" ३।१।२३ इति यङ्, द्विर्वचनम्, "नुगतोऽनुनासिकान्तस्य" ७।४।८५ इति नुक्, "अतो लोपः" ६।४।४८ इत्यकारलोपः, "यस्य हलः" ६।४।४९ इति यकारलोपः। "ज्वलनः, शोचनः" इति। "ज्वल ह्वल सञ्चलने"(धा।पा।८०४,८०५), "शुच शोके" (धा।पा।१८३)। ननु चात्र जुचंक्रम्यदंद्रम्यप्रभृतयश्चलनार्थाः,पदिस्त्वनुदात्तेत, हलादिश्च; तस्मादेतेभ्यो यथायोगं पूर्वयोगाभ्यां युच्, सिद्धः, ततः किमर्थमिह ग्रहणमित्याह-- "चलनार्थानाम्" इत्यादि। असति तेषां ग्रहम इह चंक्रमणो ग्रामस्येत्येवमादौ न स्यात्;ग्रामादेः कर्मणो विवक्षितत्वात्। तस्मात् सकर्मकेभ्यो यथा स्यादित्येवमर्थमेषां ग्रहणम्। "ज्ञापकार्थम्" इत्यादिना मतान्तरं दर्शयति। "अलंकृञस्तृन्न भवति" इति। अनेनापि ज्ञापकस्य प्रयोजनम्। अलंकत्र्तेति साधुर्न भवतीत्यध्याहार्यम्। कथं पुनः पदिग्रहणं ज्ञापकमित्याह-- "तथा हि" इत्यादि। विशेषविहितेनोकञा बाधा मा भूत्, समावेश एव यथा स्यादित्येवमर्थमिह पदिग्रहणं क्रियते। यदि ताच्छीलिके वाऽसरूपविधिः स्यात् ततोऽसरूपत्वदेवोकञा समावेशः स्यादिति पदेर्युज्विधानमनर्थकं स्यात्। तस्माज्ज्ञापनार्थमेवैतद्विशेषविहितत्वम्; "अनुदात्तेतश्च हलादेः" ३।२।१४९ इति सामान्यलक्षणेन विहितत्वात्। यदि तर्हि वाऽसरूपविधेरभावो ज्ञाप्यते, गन्तेति च "अनुदात्तेतश्च हलादेः" ३।२।१४९ इति युज्न सिध्यति, "वौ कष"( ३।२।१४३) इत्यादिना धिनुणो विधानादित्यत आह-- "प्रयिकञ्च " इत्यादि। प्रायिकत्वञ्चोत्तरसूत्रे प्रतिपादयिष्यते॥
बाल-मनोरमा
जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः ९३२, ३।२।१५०

जुचङ्क्रम्य। जु, चङ्क्रम्य, दन्द्रस्य, सृ, गृधि, ज्वल, शुच, लष, पत, पद एषां दशानां द्वन्द्वात्पञ्चमी। एभ्यस्तच्छीलादिषु युच् स्यादित्यर्थः। धातुपाठे जुधातोरदर्शनादाह-- सौत्र इति। चङ्क्रमण इति। यङन्ताद्युच्। "यस्य हलः" इति यकारलोपः, अतो लोपः। एवं दन्द्रमणः, सरणः, गद्र्धनः, ज्वलनः, शोचनः, लषणः, पतनः, पदन इत्यप्युदाहार्यम्। पूर्वेणेति। "अनुदात्तेतश्च हलादे"रित्यनेनेत्यर्थः। तेनेति। उकञ् ह्रयं तच्छीलाधिकारस्थः। तत्र वाऽसरूपविधिनैव उकञा "अनुदात्तेतश्च हलादे"रिति विहितस्य पदेर्युचो बाधो न भविष्यतीति "जुचङ्क्रम्ये" ति युज्विधिरनर्थकः स्यादतस्तातच्छीलिकेषु परस्परं वासरूपविधिर्नास्तीति विज्ञायते इत्यर्थः। "निन्दहिंसे"ति सूत्रे "तच्छीलादिषु वासरूपविधिना तृजादयो ने"ति ज्ञापितम्। इह तु "ताच्छीलिकेषु परस्परं वासरूपविधिर्नास्ती"ति ज्ञाप्यते इति न पौनरुक्त्यम्। तृन्नेति। अलम्पूर्वात्कृञोऽलङ्कृञित्यादिसूत्रविहितेन तच्छीलाधिकारस्थेन इष्णुचा "तृ"न्निति सामन्यविहितस्तच्चीलाधिकारस्थो बाध्यते इत्यर्थः।

तत्त्व-बोधिनी
जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः ७६६, ३।२।१५०

जुचङ्क्रम्य। क्रमिद्रमी यङन्तौ। क्रमु पादविक्षेपे, द्रम हम्म मीमृ गतौ। पूर्वेणेति। "अनुदात्तेतश्चे" त्यनेन। इह "पदिग्रहणं सकर्मकार्थ" मिति वृत्तिकृतोक्तम्। भाष्ये तु अनभिधानादेव सकर्मकान्न भविष्यतीत्युक्तत्वात्। ज्ञापनार्थमेव तदित्याशयेनाह--- बाधा माभूदित्यादि। परस्परमिति। निन्दादिसूत्रे हि तच्चीलादिषु वासरूपविधिना तृजादयो नेति ज्ञापितम्, इह तु "ताच्छीलिकेषु परस्परं ने"ति ज्ञापितमिति विवेक इति भावः।