पूर्वम्: ३।२।१५०
अनन्तरम्: ३।२।१५२
 
सूत्रम्
क्रुधमण्डार्थेभ्यश्च॥ ३।२।१५१
काशिका-वृत्तिः
क्रुधमण्डार्थेभ्यश् च ३।२।१५१

क्रुधकोपे, मडि भूषायाम् इत्येतदर्थेभ्यः च धतुभ्यो युच् प्रत्ययो भवति। क्रोधनः। रोषणः। मण्डनः। भूषणः।
न्यासः
क्रुधमण्डार्थेभ्यश्च। , ३।२।१५१

"तृन्" ३।२।१३५ इति तृनि प्राप्ते युज्विधीयते। इहोत्तरेऽपि प्रत्ययो यत्र विशेषो न विवक्ष्यते, तत्र तृन एवापवादो वेदितव्यः। "रोषणः"इति। "रुष रोषे" (धा।पा।१६७०)॥
बाल-मनोरमा
क्रुधमण्डार्थेम्यश्च ९३३, ३।२।१५१

क्रुधमण्डार्थेभ्यश्च। "क्रुध कोपे" "मडि भूषायाम्" एतदर्थेभ्यो धातुभ्यो युच् स्यात्तच्छीलादिष्वित्यर्थः।

तत्त्व-बोधिनी
क्रुधमण्डार्थेम्यश्च ७६७, ३।२।१५१

क्रुध। क्रुध क्रोधे, रुष रोषे, मडि भूषायाम्,भूष् अलङ्कारे।