पूर्वम्: ३।२।१५२
अनन्तरम्: ३।२।१५४
 
सूत्रम्
सूददीपदीक्षश्च॥ ३।२।१५३
काशिका-वृत्तिः
सूददीपदीक्षश् च ३।२।१५३

सूद दीप दीक्ष इत्येतेभ्यश्च युच् प्रत्ययो न भवति। अनुदात्तेत्त्वात् प्राप्तः प्रतिषिध्यते। सूदिता। दीपिता। दीक्षिता। ननु च दीपेर् विशेषविहितो रप्रत्ययः दृश्यते, नमिकम्पिस्म्यजसकमहिंसदीपो रः ३।२।१६७ इति, स एव वाधको भविष्यति, किं प्रतिषेधेन? वा ऽसरूपेण युजपि प्राप्नोति। ताच्छीलिकेषु च वा असरूपविधिर् न अस्ति इति प्रायिकम् एतदित्युक्तम्। तथा च समावेशो दृश्यते, कम्रा युवतिः, कमना युवतिः, इति योगविभागाद् विज्ञायते। अथवा मधुसूदनादयो नन्द्यादिषु द्रक्ष्यन्ते। कृत्यल्युङो बहुलम् ३।३।११३ इति ल्युडन्ता वा।
न्यासः
सूददीपदीक्षश्च। , ३।२।१५३

"षूद क्षरणे" (धा।पा।२५), "दीपौ दीप्तौ" (धा।पा।११५०), "दीक्ष {मौण्ड()एज्योपनयननियमव्रतादेशेषु-धा।पा} मौण्ड()ए" (धा।पा।६०९)। "ननु च" इत्यादि देश्यम्। "वाऽसरूपेण" इत्यादि परिहारः। स्यादेतत्--वाऽसरूपविधिर्नास्तीति ज्ञापितमेतत्। ततो नास्ति युच्प्राप्तिरित्यत आह-- "ताच्छीलिक"इत्यादि। प्रायिकस्य चायमेव लिङ्गम्। यदि हि सर्वत्र वाऽसरूपविधेरभावः स्यात्, ततो विशेषविहितेनैव प्रत्ययेन बाधितत्वादेव युज्न भविष्यीति प्रतिषेधोऽनर्थकः स्यात्। "तथा च" इत्यादिना ताच्छीलिकप्रत्ययेन समावेशं दर्शयन् प्रायिकत्वमेव ज्ञापकस्य द्रढयति। "कम्रा"इति। "नमिकम्पि" ३।२।१६७ इत्यादिना रप्रत्ययः। "कमना" इति। अनुदात्तेतश्च हलादेः"३।२।१४९ इति युच्प्रत्ययः। "कम्प्रा"इति। "कपि चलने"(धा।पा।२७५)। "सूदेः" इत्यादि चोद्यम्। "अनित्यम्" इत्यादि परिहारः। "योगविभागादविज्ञायते" इति। अनित्यत्वे साधनं "नयसूददीपदीक्ष" इत्येकयोगे कत्र्तव्ये यद्योगविभागं करोति तज्ज्ञापयति-- पूर्वस्मात् प्रतिषेधादस्य कश्चिद्विशेषोऽस्तीति। स पुवनर्विशेषोऽनित्यत्वमेव। यद्यपि दीपदीक्षतिम्यामपि युच् प्राप्नोति, अनभिधान्न भवति॥
बाल-मनोरमा
सूददीपक्षश्च ९३५, ३।२।१५३

सूददीप। सूद, दीप, दीक्ष, एषां द्वन्द्वात्पञ्चमी। युज्नेति। शेषपूरणमिदम्। "अनुदात्तेतश्चे"ति प्राप्तो युच् प्रतिषिध्यते। नन्विह दीपग्रहणं व्यर्थं, "नमिकम्पिस्म्यजसकमहिंसदीपोरः" इति विशेषविहितेन रप्रत्ययेन युचो बाधसिद्धेः। नच वाऽसरूपविधिना तद्बाधः शङ्क्यः, ताच्छीलिकेषु वासरूपविधेः प्रतिषेधादित्यत आह-- नमिकम्पीति। रेणेति। रप्रत्ययेनेत्यर्थः। प्रायिकमिति। तथा चाऽत्र वासरूपविधिना ताच्छीलिकेनापि रप्रत्ययेन युचो बाधासंभवादिह दीपेर्युचो निषेधोऽर्थवानिति भावः। तेनेति। ताच्छीलिकेऽपि क्वचिद्वासरूपविदेः सत्त्वादित्यर्थः। कम्ना कमनेति। इच्छाशीलेत्यर्थः। अत्रापि "नमिकम्पी"ति रेण युचः पक्षे बाध इति भावः। आक्षिपति-- यदीति।यदि "सूददीपदीक्षश्चे"तिसूदेर्युच्प्रतिषिध्यते तदा "मधुशूदन" इति कथमित्यन्वयः। समाधत्ते-- नन्द्यादिरिति। "सूदि"रिति सेषः। तथा च "नन्दिग्रही"ति ल्युप्रत्यय इति भावः।

तत्त्व-बोधिनी
सूददीपदीक्षश्च ७६९, ३।२।१५३

सूददीप। सूद क्षरणे, दीपी दीप्तौ, दीक्ष मौण्ड()एज्यादौ। ताच्छीलिकेष्विति। "परस्पर" मिति शेषः। प्रायिकमिति। न केवलं यथाश्रुत [ म् ] भाष्यमवलम्ब्य युज्रयोरेव समावेश इति मन्तव्यं,किंतु प्रायिकत्वं एव भाष्यस्य तात्पर्यम्। तेन गमेः "लषपतपदे" त्युकञ्विषये तृन्नपि। गन्ता। गामुकः। तथा "वौ कषलसे"ति घिनुण्विषये युजपि-- विकत्थी विकत्थन इत्यादि सिध्यतीति भावः।