पूर्वम्: ३।२।१५४
अनन्तरम्: ३।२।१५६
 
सूत्रम्
जल्पभिक्षकुट्टलुण्टवृङः षाकन्॥ ३।२।१५५
काशिका-वृत्तिः
जल्पभिक्षकुट्टलुण्टवृङः षाकन् ३।२।१५५

जल्पाऽदिभ्यो धातुभ्यः तच्छीलादिषु कर्तृषु षाकन् प्रत्ययो भवति। षकारो ङीषर्थः। जल्पाकः। भिक्षाकः। कुट्टाकः। लुण्टाकः। वराकः। वराकी।
लघु-सिद्धान्त-कौमुदी
जल्पभिक्षकुट्टलुण्टवृङः षाकन् ८४१, ३।२।१५५

न्यासः
जल्पभिक्षकुट्टलुण्?टवृङः षाकन्। , ३।२।१५५

"जप जल्प व्यक्तायां वाचि" (धा।पा।३९७,३९८), "भिक्ष "याच्ञायाम्" (धा।पा।६०६) "कुट्ट {छेदनेभत्र्सनयोः-धा।पा।} च्छेदने" (धा।पा।१५५८), "लुण्ट स्तेये"(धा।पा।१५६३)-- चौदादिकावेतौ। "वृङ सम्भवतौ" (धा।पा।१५०९)। जल्पेरकर्मकत्वविवक्षया "चलनशब्दार्थादकर्मकाद्युच्" ३।२।१४८ इति युचि प्राप्ते। भिक्षेरपि "अनुदात्तेतश्च हलादेः"३।२।१४९ इति युच्येव। कुट्टिलुण्टिभ्यां "णेश्छन्दसि"३।२।१३७ इतीष्णुचि। वृङोऽपि "आदृगमहन" ३।२।१७१ इत्यादिना किकिनोः प्राप्तयोस्तदपवादः षाकन् विधीयते। "वराकी"इति। षित्वान्ङीष्॥
बाल-मनोरमा
जल्पभिक्षकुट्टलुम्टुवृङः षाकन् ९३७, ३।२।१५५

जल्पभिक्ष। एभ्यः पञ्चभ्यः षाकन् स्यात्तच्छीलादिष्वित्यर्थः। षनावितौ। स्त्रियां षित्त्वान्ङीष्। जल्पाक इत्यादि।

बाल-मनोरमा
पुवः संज्ञायाम् ९६८, ३।२।१५५

पुवः संज्ञायाम्। "इत्र" इति शेषः। करणे इत्येव। पवित्रमिति। पूयते अनेनाऽ‌ऽज्यामिति विग्रहः। तदाह-- येनाज्यमिति। पूयते आचमनोदकादिकमनेनेति विग्रहं मत्वाऽ‌ऽह-- यच्चानामिकेति। अनामिका --उपकनिष्ठिकाह्गुलिः।

तत्त्व-बोधिनी
जल्पभिक्षकुट्टलुण्टवृङः षाकन् ७७०, ३।२।१५५

जल्प। जप जल्प व्यक्तायां वाचि, भिक्ष भिक्षायामलाभे लाभे च, कुट् ट छेदने, लुण्ट स्तेये, चौरादिकाविमौ। अत् व्याचख्युः-- जल्पेः "चलनशब्दार्था"दिति,भिक्षेः "अनुदात्तेतश्चे"ति युचि प्राप्ते, कुट्टलुण्टयोः "णेश्छन्दसी"ति इष्णुचि प्राप्ते, वृङस्तु "आदृगमहनजने"ति किकिनोः प्राप्तयोरयं विधिरिति। षो ङीषर्थ इत्याह-- वराकीति।

तत्त्व-बोधिनी
पुवः संज्ञायाम् ७९३, ३।२।१५५

पुवः। पूङ्पूञोरुभयोग्र्रहणमविशेषात्। करण इत्यनुवृत्तेराह-- येनाज्यमिति।