पूर्वम्: ३।२।१५८
अनन्तरम्: ३।२।१६०
 
सूत्रम्
दाधेट्सिशदसदो रुः॥ ३।२।१५९
काशिका-वृत्तिः
दाधेट्सिशदसदो रुः ३।२।१५९

दा धेट् सि शद सद इत्येतेभ्यः रुः प्रत्ययो भवति। दरुः। धारुर्वत्सो मातरम् न लौकाव्ययनिष्ठाखलर्थतृनाम् २।३।६९ इति उकारप्रश्लेषात् षष्ठी न भवति। सेरुः। शद्रुः। सद्रुः।
न्यासः
दाधेट्सिशदसदो रुः। , ३।२।१५९

"डुदाञ् दाने" (धा।पा।१०९१), "दो अवखण्डने"(धा।पा।११४८), "देङ रक्षणे"(धा।पा।९६२)--त्रयाणामिह ग्रहणम्; "गामादाग्रहणेष्वविशेषः" (व्या।प।१२४) इति वचनात्। "धेट् पाने"(धा।पा।९०२), षिञ् बन्धने" (धा।पा।१४७७), "शद्लृ शातने" (धा।पा।१४२८), "षद्लृ विशरणगत्यवसादनेषु" (धा।पा।१४२७)। अथ "धारुर्वत्सो मातरम्" इति कथमत्र द्वितीया, यावता "कर्त्तृकर्मणोः कृति" २।३।६५ इति षष्ठ()आ भवितव्यमित्यत आह-- "न लोकाव्ययनिष्ठा" इति। उको य उकारस्तेन सहाकः सवर्णदीर्घत्वेन प्रश्लिष्टः, तेन तदन्तविधौ विज्ञायमाने उकारान्तस्य प्रत्ययस्य प्रयोगे षष्ठी न भवति, तेन द्वितीयैव भवतीति न षष्ठी। नन्विह तर्हि-- कटं चिकीर्षुरिति प्रतिषेधो न स्यात्, उप्रत्यय्सयानुकारान्तत्वात्। घिनुणपि बवति। छन्दस्युकारान्तत्वात् "आदृगमहन" ३।२।१७१ इत्यादिना किकिनावपि भवतः॥
बाल-मनोरमा
दाधेट्?सिशदसदो रुः ९४१, ३।२।१५९

दाधेट्। दा, धेट्, सि, शद्, सद् एषां द्वन्द्वात्पञ्चमी। एभ्यो रुप्रत्ययः स्यात्तच्छीलादिष्वित्यर्थः।

तत्त्व-बोधिनी
दाधेट्सिशदसदोः रुः ७७४, ३।२।१५९

दाधेट्। डुदाञ्()दोडेङां त्रयाणामेव ग्रहणं,न तु दाण्()दापोरित्याहुः।