पूर्वम्: ३।२।१५९
अनन्तरम्: ३।२।१६१
 
सूत्रम्
सृघस्यदः क्मरच्॥ ३।२।१६०
काशिका-वृत्तिः
सृघस्यदः क्मरच् ३।२।१६०

सृ घसि अद इत्येतेभ्यो धातुभ्यः तच्छीलादिषु कर्तृषु क्मरच् प्रत्ययो भवति। सृमरः। घस्मरः। अद्मरः।
बाल-मनोरमा
सृघस्यदः क्मरच् ९४२, ३।२।१६०

सृघस्यदः। सृ, घसि, अद् एषां द्वन्द्वात्पञ्चमी। घसिः प्रकृत्यन्तरम्।