पूर्वम्: ३।२।१६१
अनन्तरम्: ३।२।१६३
 
सूत्रम्
विदिभिदिच्छिदेः कुरच्॥ ३।२।१६२
काशिका-वृत्तिः
विदिभिदिच्छिदेः कुरच् ३।२।१६२

ज्ञानार्थस्य विदेः ग्रहणं न लाभाद्यर्थस्य, स्वभावात्। विदादिभ्यो धातुभ्यः तच्छीलादिषु कर्तृषु कुरच् प्रत्ययो भवति। विदुरः पण्डितः। भिदुरं काष्ठम्। छिदुरा रज्जुः। भिदिच्छिद्योः कर्मकर्तरि प्रयोगः। व्यधेः सम्प्रसारणं कुरच् च वक्तव्यः। विधुरः।
न्यासः
विदिभिदिच्छिदेः कुरच्। , ३।२।१६२

"ज्ञानार्थस्य विदेग्र्रहणम्" इति। "विद ज्ञाने" (धा।पा।१०६४) इत्येतस्य। "न लाभार्थस्य" इति। "विद्लृ लाभे" (धा।पा।१४३२) इत्येतस्य। अज्ञानार्थस्य विदेरुपलक्षणमेतत्, तेन सत्ताविचारणार्थौ यौ विदी तयोरपि ग्रहणं न भवत्येव। क्वचित्त्वनयोरादिशब्देनोपसंग्रहाय लाभार्थस्येति पाठः। कस्मात् पुनज्र्ञानार्थस्य ग्रहणमित्याह-- "स्वभावात्" इति। विदेरुत्पन्नेन प्रत्ययेन स्वभाव एव ज्ञानक्रियाया यः कत्र्ता स एव प्रतीयते, नान्यः। तस्माज्ज्ञानार्थस्य ग्रहणम्, नान्यस्य। "कर्मकत्र्तरि प्रत्ययः"इति। स्वयमेव च्छिद्यत इत्यर्थे। तत्र स्वभावादिति पूर्वोक्त एव हेतुः॥
बाल-मनोरमा
विदिभिदिच्छिदेः कुरच् ९४४, ३।२।१६२

विदिभिदि। तच्छीलादिष्वित्येव। विदेज्र्ञानार्थस्य ग्रहणं, नतु लाभार्थस्य, व्याख्यानादित्याहुः। विदुर इत्यादौ कित्त्वान्न लघूपधगुणः।

तत्त्व-बोधिनी
विदिभिदिच्छिदेः कुरच् ७७६, ३।२।१६२

विदिभिदि। विदेज्र्ञानार्थस्यैव ग्रहणं न तु लाभार्थस्य, व्याख्यानात्। छिदुरमिति। कर्मकर्तरि प्रत्यय इति वृत्तिः। नैतद्भाष्ये दृष्टम्। तथा च माघो मुख्ये कर्तरि प्रायुङ्क्त--"प्रियतमाय वपुर्गुरुमत्सरच्छिदुरयाऽदुरयाचितमङ्गना" इति। इह अदुरिति च्छेदः।