पूर्वम्: ३।२।१६४
अनन्तरम्: ३।२।१६६
 
सूत्रम्
जागुरूकः॥ ३।२।१६५
काशिका-वृत्तिः
जागुरूकः ३।२।१६५

जागर्तेः ऊकः प्रत्ययो भवति तच्छीलादिषु कर्तृषु। जागरूकः।
न्यासः
जागरूकः। , ३।२।१६५

"जागरूकः" इति। "जागृ निद्राक्षये" (धा।पा।१०७२)। वाऽसरूपविधिना तृन्नपि-- जागरितेति भवति॥
बाल-मनोरमा
जागुरूकः ९४७, ३।२।१६५

जागुरूकः। "जागृ" इत्यस्य जागुरित पञ्चम्यन्तं पदम्। तदाह-- जागर्तेरिति। तच्छीलादिष्वित्येव। जागरूक इति। ऋकारस्य गुणः, रपरत्वम्। सिद्धरूपं तु न निपातितम्, उत्तरसूत्रे ऊक इत्यननुवृत्तिप्रसङ्गात्।

तत्त्व-बोधिनी
जागुरूकः ७७८, ३।२।१६५

जागरूकः। "जागु"रिति पञ्चम्यन्तं। तद्व्याचष्टे-- जागर्तेरिति। जागरूक इति सिद्धरूपमेव न तु निपातितम, उत्तरसूत्रे ऊकस्याऽननुवृत्तिप्रसङ्गात्।