पूर्वम्: ३।२।१६६
अनन्तरम्: ३।२।१६८
 
सूत्रम्
नमिकम्पिस्म्यजसकमहिंसदीपो रः॥ ३।२।१६७
काशिका-वृत्तिः
नमिकम्पिस्म्यजसकमहिंसदीपो रः ३।२।१६७

नम्यादिभ्यः धातुभ्यः तच्छीलादिषु कर्तृषु रः प्रत्ययो भवति। नम्रं काष्ठम्। कम्प्रा शाखा। स्मेरं मुखम्। अजस्रं जुहोति। हिंस्रं रक्षः। दीप्रं काष्ठम्। अजस्रम् इति जसु मोक्षणे नञ्पूर्वो रप्रत्ययान्तः क्रयासातत्ये वर्तते।
न्यासः
नमिकम्पिस्म्यसकमहिंसदीपो रः। , ३।२।१६७

णम प्रह्वत्वे शब्दे" (धा।पा।९८१), "कपि चलने" (धा।पा।३७५), "ष्मिङ ईषद्धसने" (धा।पा।९४८), "कमु कान्तौ" (धा।पा।४४३), "{तृह-धा।पा} तृहि हिसि हिंसायाम्" (धा।पा।१४५५,१४५६), "दीपी दीप्तौ" (धा।पा।११५०)। कपेश्चलनार्थत्वात् कमिदीपिभ्यञ्चानुदा४त्तेत्त्वाद्युचि प्राप्ते रो विधीयते। "क्रियासातत्यम्" इति। क्रियमाणानामविच्छेदेन प्रवृत्तिः = क्रियासातत्यम्। तत्र स्वभाव एव प्रत्ययान्तो वत्र्तते॥
बाल-मनोरमा
नमिकम्पिरम्यजसकमहिसदीपो रः ९४९, ३।२।१६७

नमिकम्पि। नमि, कम्पि, स्मि, अजस, कम, हिंस, दीप् एषां द्वन्द्वात्पञ्चम्येकवचनम्। एभ्यः सप्तभ्यो रप्रत्ययः स्यात्तच्छीलदिष्वित्यर्थः। अजसधातोर्धातुपाठेऽदर्शनादाह-- जसिर्नञ्पूर्व इति। "जसु मोक्षणे"अयं नञ्पूर्वः शक्तिस्वभावात् क्रियासातत्ये वर्तते इत्यर्थः। निपातनाद्धातुना नञः समासे "नलोपो नञः" इति नलोपः।