पूर्वम्: ३।२।१६८
अनन्तरम्: ३।२।१७०
 
सूत्रम्
विन्दुरिच्छुः॥ ३।२।१६९
काशिका-वृत्तिः
विन्दुरिच्छुः ३।२।१६९

विदेर् नुमागमः, इषेः छत्वम् उकारश्च प्रत्ययो निपात्यते तच्छीलादिषु कर्तृषु। वेदनशीलो विन्दुः। एषणशील इच्छुः।
न्यासः
विन्दुरिच्छुः। , ३।२।१६९

"विदेः" इति। "विद ज्ञाने" (धा।पा।१०६४)। इतरेषां त्वनभिधानान्निपातनसामथ्र्याद्वा ग्रहणं न भवति। "इषेः" इति। "{इष-धा।पा।} इषु इच्छायाम्" (धा।पा।१३५१) इत्येतस्य। "इष गतौ" (धा।पा।११२७) इत्यादीनां त्विषीणां पूर्ववद्()ग्रहणं न भवति। "इच्छुः" इति। छकारादेशो निपात्यते। "छे च" ६।१।७१ इति तुक्, "स्तोः श्चुना श्चुः" ८।४।३९ इति श्चुत्वम्॥
बाल-मनोरमा
विन्दुरिच्छुः ९५१, ३।२।१६९

विन्दुरिच्छुः। वेत्तेरिति। "विद ज्ञाने" इत्यस्यादुप्रत्यये प्रकृतेर्नुमागमः। इषु इच्छायामित्यस्मादुप्रत्यये षकारस्य छत्वं च निपात्यते इत्यर्थः। वेत्तीति। धातुप्रदर्शनम्। तच्छील इति। वेदनशील इत्यर्थः। इच्छतीति। "इषु इच्छाया"मिति धातुप्रदर्शनम्। एषणशील इत्यर्थः।

तत्त्व-बोधिनी
विन्दुरिच्छुः ७८१, ३।२।१६९

विन्दुरिच्छुः। "विद ज्ञाने" इत्यस्यैव ग्रहणं नेतरेषाम्। एवमिषेरपि इच्छार्थकस्यैव ग्रहणं, नत्विष गतौ, इष आभीक्ष्ण्ये इत्यनयोः, अनभिधानान्निपातनाद्वेति भावः। बिन्दुशब्दस्तु पवर्गीयादिः-- विदि अवयवेऽस्मान्मृगय्वादित्वात्कुप्रत्यये बोध्यः।