पूर्वम्: ३।२।१६
अनन्तरम्: ३।२।१८
 
सूत्रम्
भिक्षासेनाऽ‌ऽदायेषु च॥ ३।२।१७
काशिका-वृत्तिः
भिक्षासेनाऽअदायेषु च ३।२।१७

अनधिकरणार्थः आरम्भः। भिक्षा सेना आदाय इत्येतेषु उपपदेषु चरेः धतोः टप्रत्ययो भवति। भिक्षाचरः। सेनाचरः। आदायचरः।
लघु-सिद्धान्त-कौमुदी
भिक्षा सेनादायेषु च ७९६, ३।२।१७

भिक्षाचारः। सेनाचारः। आदायेति ल्यबन्तम्। आदायचरः॥
न्यासः
भिक्षासेनादायेषु च। , ३।२।१७

"अनधिकरणार्थ आरम्भः" इति। अधिकरणे पूर्वेणैव सिद्धम्। भिक्षाञ्चरतीति "भिक्षाचरः" सेनाञ्चरतीति "सेनाचरः"। "आदाय" इति ल्यबन्तमेतत्। आदाय चरतीति "आदायचरः" अत्रादातव्यकर्मणोऽविवक्षितत्त्वात् पूर्वाकालमात्रे विवक्षिते प्रत्ययः। आदानं कृत्वा चरतीति यावत्। तेन सापेक्षत्वादसामर्थ्ये सति प्रत्ययो न सिध्यतीत्येतदचोद्यम्। अथापि कर्मापेक्षते? एवमपि न दोषः; वचनसामथ्र्यादसामर्थ्येऽपि प्रत्ययो भवति॥
बाल-मनोरमा
भिक्षासेनादायेषु च ७४६, ३।२।१७

भिक्षासेना। भिक्षा, सेना, आदाय- एषु चोपदेषु चरेष्टः स्यादित्यर्थः। भिक्षां चरतीति। चरतिरत्र चरणपूर्वके आर्जने वर्तते। चरणेन भिक्षा मार्जयतीत्यर्थ-। सेनाचर इति। सेनां प्रापयतीत्यर्थः। ल्यबन्तमिति। अत्र व्याख्यानमेव शरणम्। आदाय चरतीति। लब्धं द्रव्यं गृहीत्वा चरतीत्यर्थः। कथमिति। अधिकरणे भिक्षासेनाऽ‌ऽदायेषु उपपदेषु च विहितस्य टप्रत्ययस्य सहपूर्वाच्चरेसंभवादिति भावः। समाधत्ते-- पचादिष्विति। यद्यपि "भिक्षाचर" इत्यादौ पचाद्यचि रूपसिद्धिः, तथापि नित्योपपदसमासार्थमज्विधानमित्याहुः।

तत्त्व-बोधिनी
भिक्षासेनादायेषु च ६२३, ३।२।१७

भिक्षासेना। अनधिकरणार्थ आरम्भः। भिक्षां चरतीति। चरतिरत्र चरणपूर्वके अर्जने वर्तते। चरणेन भिक्षामर्जयतीत्यर्थः। सेनाचर इति। सेनां चरति = प्रविशतीत्यर्थः। पचादिष्विति। टविधानं तु "उपपदमति" ङिति नित्यसमासार्थम्। सहचरः। सहचतीत्यत्र तु सुप्सुपेति वैकल्पिकः समासः।