पूर्वम्: ३।२।१७०
अनन्तरम्: ३।२।१७२
 
सूत्रम्
आदृगमहनजनः किकिनौ लिट् च॥ ३।२।१७१
काशिका-वृत्तिः
आदृगमहनजनः किकिनौ लिट् च ३।२।१७१

आकारान्तेभ्यः ऋवर्णान्तेभ्यः गम हन जन इत्येतेभ्यश्च छन्दसि विषये तच्छीलादिषु किकिनौ प्रतयौ भवतः। लिङ्वच् च तौ भवतः। आतिति तकारो मुखसुखार्थः, न त्वयं अपरः, मा भूत्तादपि परः तपरः इति ऋकारे तत्कालग्रहणम्। पपिः सोमं ददिर्गाः। ददथुः मित्रावरुणा ततुरिम् मित्रावरुणौ ततुरिः। दूरे ह्यध्वा जगुरिः। जग्मिर्युवा। जघ्निर्वृत्र। जज्ञि बिजम्। अथ किमर्थं कित्त्वम्, यावता असंयोगाल् लिट् कित् १।२। इति कित्त्वं सिद्धम् एव? ऋच्छत्यृऋताम् ७।४।११ इति लिटि गुणः प्रतिषेधविषय आरभ्यते, तस्य अपि बाधनार्थं कित्त्वम्। किकिनावुत्सर्गश् छन्दसि सदादिभ्यो दर्शनात्। सेदिः। नेमिः। भाषायां धञ्कृञ्सृजनिगमिनमिभ्यः किकिनौ वक्तव्यौ। दिधिः। चक्रिः। सस्त्रिः। जज्ञिः। जग्मिः। नेमिः। सहिवहिचलिपतिभ्यो यङन्तेभ्यः किकिनौ वक्तव्यौ। दीर्घो ऽकितः ७।४।८३ सासहिः। वावहिः। चाचलिः। पापतिः।
न्यासः
आदृगमहनजनः किकिनौ लिट् च। , ३।२।१७१

परपदार्थेषु प्रयुज्यमानाः शब्दा वतिमन्तरेणापि वत्यर्थं गमयन्ति, यथा-- गौर्वाहीकः, सिंहो माणवक इति। गौर्वाहीक इत्युक्ते गो शब्दोऽर्थान्तरे प्रयुक्तो विनापि वतिना गौरिवायमिति तुल्यशब्दरूपे वाहीके प्रतीयते। इह लिडिति स्वार्थादन्यत्र किकिनोः प्रयुक्तः। तस्मादसत्यपि वतिना योगेऽतिदेशो गम्यत इत्याह-- "लिड्()वच्च तौ भवतः"इति। लिटा तुल्यौ = तुल्यधर्माणौ भवत इत्यर्थः। द्विर्वचनादिकं यल्लिटः कार्यं तत् किकिनोर्भवतीति भावः। कार्यातिदेशोऽयम्, न शास्त्रातिदेशः; कार्यातिदेशापेक्षया शास्त्रातिदेशस्याप्राधान्यात्। अप्राधान्यं तु शास्त्रातिदेशस्य कार्यत्वात्। यदि तर्हि कार्यातिदेशोऽयम् "लः परस्मैपदम्" १।४।९८ इति परस्मैपदसंज्ञाऽपि किकिनोः प्राप्नोति, ततश्चात्मनेपदिभ्यस्तौ न स्याताम्? नैष दोषः; लादेशस्य हि परस्मैपदसंज्ञा, न लकारस्य। "ल" इति ह्रादेशापेक्षया तत्र षष्ठी, लादेशः परस्मैपदसंज्ञको भवतीति यावत्। न च किकिनौ लादेशौ,तत्कुतः परस्मैपदसंज्ञायाः प्रसङ्गः। तिबादयस्तर्हि कस्मान्न भवन्ति? तयोर्विधानसामथ्र्यात्। यदि तर्हि तिबादयः स्युः, किकिनोर्विधानमनर्थकं स्यात्-- लिटमेव विदध्यादिति, न च तिबादिभिस्तच्छीलादयो विधीयन्ते? अनभिधानान्न भविष्यन्ति। क्वसुकानचौ कस्मान्न भवतः, न च तयोर्भाव आनर्थक्यं किकिनोरुपपद्यते; "लिटः कानज्वा" ३।२।१०६ "क्वसुश्च" (३।२।१०७) इति विकल्पेन क्वसुकानचोर्विधानात्? अनभिधानादेव तावपि न भविष्यतः; न हि ताभ्यां तच्छीलादयो विधीयन्ते;अत एवानभिधानात्। "लः कर्मणि च भावे चाकर्मकेभ्यः" ३।४।६९ इतिभावकर्मणोरपि किकिनौ न भवतः। यथैव हि "भञ्जभासमिदो घुरच्" ३।२।१६१ इति भञ्जेरुत्पन्नेन च घुरचा स्वभावात् कर्मकर्त्तैवाभिधीयते न कर्त्तृमात्रम्, तथा किकिन्भ्यामपि धातोरुत्पन्नाभ्यां स्वभावादेव कर्त्तैवाभिधीयते, न भावकर्मणी। "आदिति दकारो मुखसुखार्थः"इति। तपरत्वनिरासार्थमेतत्। अत एवाह-- " न त्वयं तपरः" इति। किं पुनः कारणं तपरो नेष्यत इत्याह-- "मा भूत्" इत्यादि। "तपरस्तत्कालस्य" १।१।६९ इति तादपि पर इति पञ्चमीसमासोऽप्याश्रितः। "वृद्धिरादैच्" १।१।१ इत्यत्र त्रिमात्रचतुर्मात्रयोरैचां वृद्धिसंज्ञा मा भूदित्येवमर्थम्। ततश्च यद्येवं तपरः स्यात् तदा ऋकारेऽपि तपर एव स्यात्, ततश्च ऋकारेण तत्कालानां मात्रिकाणामेतद्()ग्रहणं स्यात्, न पुनर्दीर्घाणाम्। तत्र को दोषः? दधिश्चक्रिरित्येवमादावेव स्याताम्; ततुरिः, जगुरिरित्येवमादौ च न स्याताम्। तस्मात् मा भूदित्येव दोष इति तपरत्वमत्र नेष्यते। "पपिः सोमम्" इति। "आतो लोप इटि च" ६।४।६४ इत्याकारलोपः, द्विर्वचनम्, अभ्यासस्य ह्यस्वः। "न लोकाव्ययनिष्ठा" २।३।६९ इत्यादिना षष्ठीप्रतिषेधः कार्यं इति सोमशब्दात् कर्मणि द्वितीयैकवचनं भवति। "ददिः" इति। "डुदाञ् दाने" (धा।पा।१०९१)। "ततुः" इति। "बहुलं छन्दसि"७।१।१०३ इत्युक्तम्, रपरत्वञ्च। "द्विर्वचनेऽचि" १।१।५८ इति स्थानिवद्भावात् तृशब्दो द्विरुच्यते। (धा।पा।७।४।६६) इत्यत्त्वम्,रपरत्वम्, हलादिशेषः ७।४।६०। "जगुरिः" इति। "गृ निगरणे" (धा।पा।१४१०) "जन्मिः, जघ्निः" इति। "गमहन" ६।४।९८ इत्यादिनोपधालोपः। जनेर्नकारस्य "स्तो श्चुना श्चुः" ८।४।३९ इति श्चुत्वं ञकारः। "अथ" इत्यादि चोद्यम्। "ऋच्छत्यृताम्" इत्यादिना परीहारः। "उत्सर्गश्छन्दसि" इत्यादि। सामान्येन विधानम् = उत्सर्गः। एतदुक्तं भवति-- प्रकृतिविशेषमनुपादाय धातुमात्रात् किकिनोरुत्पादौ द्रष्टव्याविति। धातुमात्राद्विधातव्याविति यावत्। कुतो हेतोरित्याह-- "सदादिभ्योऽपि दर्शनात्" इति। सदादिभ्योऽपि सूत्रानुपात्तेभ्यः किकिनौ यस्मादुत्सर्गः कत्र्तव्यः। "सेदिः,नेमिः"इति। पूर्वदेत्त्वाभ्यासलोपौ। "षद्लृ विशरणगत्यवसादनेषु" (धा।पा।८५४), "णम प्रह्वत्वे शब्दे" (धा।पा।९८१), "अत एकहल्मध्येऽनादेशादेर्लिटि"६।४।१२० इत्येत्त्वाभ्यासलोपौ। "दधिः, चक्रिः" इति। घाञः पूर्ववदाकारलोपः। "चक्रिः, सस्रिः" इति। करोतेः सत्र्तेश्च यणादेशः। "जज्ञिः" इति। जनेः पूर्वच्चुत्वोपधालोपौ। "नेमिः"इति। पूर्ववदत्त्वाभ्यासलोपौ। "सहिवहि" इत्यादि। भाषायामपि वत्र्तते। "सासहिः" इत्यादि। सहादिभ्यो यङ, द्विर्वचनम्, पूर्ववदकारयलोपौ॥
बाल-मनोरमा
आदृगमहनजनः किकिनौ लिट् च ९५३, ३।२।१७१

आदृगम। आत्, ऋ, गम, हन, जन्, एषां द्वन्द्वात्पञ्चमी।कि किन् अनयोद्र्वन्द्वः। लिट् चेति व्याचष्टे -- तौ च लिड्वदिति। तच्छीलादिष्वित्येव। पपिरिति। पाधातोः किः। द्वित्वादि, आल्लोपः। ददिरिति। दाधातोः किः। द्वित्वादि। बभ्रिर्वज्रमिति। भृञः किः, द्वित्वादि। जघ्निरित। हनः किः। द्वित्वादि। "गमहने"त्युपधालोपः। "हो हन्ते"रिति कुत्वम्। जज्ञिरिति। जनेः किः। द्वित्वादि। एवं किन्यपि बोध्यम्। स्वरे विशेषः। छान्दसमप्येतत्सूत्रद्वयं भाषायामित्यादिवक्ष्यमाणवरातिकविवेचनाय इहोपन्यस्तम्। भाषायामिति। वार्तिकमिदम्। धाञ्, कृ, सृ, गमि, जनि, नमि एभ्यः षड्भ्यः किकिनौ , तौ च लिड्वदिति वक्तव्यमित्यर्थः। दधिरित्यादि। किकिनोः कृतयोर्द्वित्वादि यथासंभवं ज्ञेयम्। नेमिरिति। नमेः किः। द्वित्वम्। एत्त्वाभ्यासलोपौ। सासहीति। सहेर्यङि द्वित्वादौ "दीर्गोऽकितः" इति दीर्घे, किकिनोः कृतयोः "यस्य हलः" इति यकारलोपे , अतो लोपे "सासही"ति निर्देशः। एवं वहेः चलेः पतेश्च यङन्तस्य किकिनन्तस्य निर्देशः। एषां निपातनस्य उपसङ्ख्यानमित्यर्थः। तदाह-- यङन्तेभ्यः सहत्यादिभ्य इति। नीगभाव इति। "नीग्वञ्चु" इति प्राप्तस्य नीगागमस्याऽभावन इत्यर्थः।

तत्त्व-बोधिनी
आदृगमहनजनः किकिनौ लिट् च ७८३, ३।२।१७१

आदृग। "ऋदोर"बितिवदादिति दकारो मुखसुखार्थो, न त्वयं तकारः। तेन तत्परत्वाऽभावादृ इत्येनेन दीर्घोऽपि गृह्रते।ततुरिः। जगुरिः। तृ? प्लवनतरणयोरित्यस्य, गृ? निगरण इत्यस्य च "बहुलं छन्दसी" त्युत्वे रूपमिति प्राञ्चः। वस्तुतस्तु आदित्यादि प्रकृतिविशेषणम्। उदाहरणं प्रपञ्चमात्रम्। किकिनौ लिट्चेत्येतावन्मात्रमेव विवक्षितम्। तथा च वार्तिकं-- "किकिनावुत्सर्गश्छन्दसि सदादिभ्यो दर्शना"दिति। उदाह्मतं च भाष्ये-- सेहिर्नेमिरित्यादि। एवं स्थिते आदिति तपरकरणेऽपि न क्षतिरिति ध्वनयन्नाह-- आदन्तादृदन्तादिति। बभ्रिर्वज्रमिति। "न लोके" ति षष्ठीनिषेधाद्द्वितीया। किकिनोः स्थाने तिबादयो न, "लिड्व"दित्यतिदेशेन स्वरूपाऽबाधेनैव कार्यातिदेशात्। छान्दससूत्रद्वयोपन्यसनं भाषायां धाञित्यादिवार्तिकविषयविवेचनार्थम्। इह च वार्तिके गमिर्यद्यपि न दृश्यते तथापि धातुवृत्तौ, क्वचिद्वृत्तिपुस्तके च दर्शनादुपन्यस्तः। जग्मिरिति। "गमहनजने"त्युपधालोपः। जघ्निरिति। "अभ्यासाच्चे"ति कुत्वम्।

* भाषायां धाञ्कृसृगमिजनिनमिभ्यः। दधिरिति। आतो लोपः। नेमिरिति। एत्वाभ्यासलोपौ।

* सासहिवावहिचाचलिपापतीनामुपसङ्ख्यानम्। सासहीत्यादि। यङोऽतोलोपेयलोपः। अभ्यासदीर्घः। नीगभावश्चेति। "नीग्वञ्चु" इत्यादिना प्राप्तस्य नीगागमस्याऽभाव इत्यर्थः। तृष्णगिति। डित्त्वान्न गुणः। नजिङ इकार उच्चारणार्थः।