पूर्वम्: ३।२।१७५
अनन्तरम्: ३।२।१७७
 
सूत्रम्
यश्च यङः॥ ३।२।१७६
काशिका-वृत्तिः
यश् च यङः ३।२।१७६

या प्रापने, अस्माद् यङन्तात् तच्छीलादिषु कर्तृषु वरच् प्रत्ययो हवति। यायावरः।
न्यासः
यश्च यङः। , ३।२।१७६

"यायावरः" इति। पूर्ववदकारयलोपौ॥
बाल-मनोरमा
यश्च यङः ९५८, ३।२।१७६

यश्च यङः। "या प्रापणे" इत्यस्य धातोरनुकरणस्य या इत्यस्य "यः" इति षष्ठ()न्तम्। तदाह--- यातेरिति। याधतोर्यङ्। द्वित्वादि। "दीर्घोऽकितः" इत्यभ्यासस्य दीर्घः। "यायाये"ति यङन्ताद्वरचिविशेषमाह-- अतो लोप इति। हलः परत्वाऽभावात् "यस्य हलः" इति यकारोलोप न। "यायाय् - वर" इति स्थिते आह-- लोपो व्योरिति यकारलोप इति। ननु अतो लोपस्य "अचः परस्मिन् इतस्थानिवत्त्वदाकरेण व्यवधानाद्वल्परत्वाऽभावात्कथमह यलोप इत्यत आह-- तस्येति। तस्य= अल्लोपस्य यलोपे कर्तव्ये "न पदान्ते"ति स्थानिवत्त्वनिषेधादित्यर्थः। एवं च यङोऽकारस्य यकारस्य च लोपे यायावर इत्यत्र "आतो लोप इटि चे"त्याल्लोपमाशङ्क्य निराकरोति-- अल्लोपस्येति। यङकारलोपस्य "अचः परस्मि"न्नति स्थानिवत्त्वमाश्रित्य तदाकारात्मकाद्र्धधातुकपरत्वादाकारस्य "आतो लोप इटि चे"त्याल्लोपे प्राप्ते सति परिहार उच्यते इत्यर्थः। परिहारमेवाह-- वरे लुप्तं न स्थानिवदिति। "लुप्त"मिति भावे क्तः। "न पदान्ते" ति सूत्रे "वरे" इत्यनेन वरे परे विहितं न स्थानिवदिति लभ्यते। अल्लोपोऽयमाद्र्धधातुके वरे परे विहितः। अतस्तस्य स्थानिवत्त्वाऽभावान्न यङोऽकारमाश्रित्य "आतो लोप इटि चे"त्यस्य प्रवृत्तिरित्यर्थः। एवंच "न पदान्ते"ति सूत्रे "वरे" इत्यंशस्य , "यलोपे" इत्यंशस्य च यायावर इत्युदाहरणमिति बोध्यम्।