पूर्वम्: ३।२।१७६
अनन्तरम्: ३।२।१७८
 
सूत्रम्
भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप्॥ ३।२।१७७
काशिका-वृत्तिः
भ्राजभासधुर्विद्युतौर्जिपृ̄जुग्रावस्तुवः क्विप् ३।२।१७७

भ्राजादिभ्यः धातुभ्यस् तच्छीलादिषु कर्तृषु क्विप् प्रत्ययो भवति। विभ्राट्, विभ्राजौ, विभ्राजः। भाः, भासौ, भसः। धूः, धुरौ, धुरः। विद्युत्, विद्युतौ, विद्युतः। ऊर्क्, ऊर्जौ, ऊर्जः। पूः, पुरौ, पुरः। जवतेर् दीर्घश्च निपात्यते। जूः जुवौ, जुवः। ग्रावस्तुत्, ग्रावस्तुतौ, ग्रावस्तुतः। किमर्थम् इदम् उच्यते, यावता अन्येभ्यो ऽपि दृश्यन्ते ३।२।७५, क्विप् च ३।२।७६ इति क्विप् सिद्ध एव? ताच्छीलिकैर् बाध्यते। वा ऽसरूपविधिर् न अस्ति इत्युक्तम्। अथ तु प्रायिकम् एतत्। ततस् तस्य एव अयं प्रप्ञ्चः।
लघु-सिद्धान्त-कौमुदी
भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप् ८४४, ३।२।१७७

विभ्राट्। भाः॥
न्यासः
भ्राजभासधुर्विद्युतोजिपृ?जुग्रावस्तुवः क्विप्। , ३।२।१७७

"{भ्राजृ- धा।पा} भ्राज दीप्तौ" (धा।पा।१८१), "भासृ दीप्तौ" (६२४), "उर्वी तुर्वी थुर्वी धुर्वी हिंसार्थाः"(धा।पा।५६९,५७०,५७१,५७३), "द्युत दीप्तौ" (धा।पा।७४१), "उर्ज बलप्राणनयोः" (धा।पा।१५४९), "पृ? पालनपूरणयोः" (धा।पा।१०८६), "जु"इति सौत्रो धातुः, "ष्टुञ् स्तुतौ" (धा।पा।१०४३) ग्रावपूर्वः। "विभ्राट्" इति। व्रश्चादिसूत्रेण ८।२।३६ षत्वम्। पूर्ववज्जश्त्वं चत्र्वञ्च। "धूः" इति। "राल्लोपः" ६।४।२१ इति वकारलोपः, "र्वोरुपधाया दीर्घ इकः" ८।२।७६ इति दीर्घः। "पूः"इति। "उदोष्ठ()पूर्वस्य" ७।१।१०२ इत्युत्त्वम्, रपरत्वञ्च, पूर्ववद्दीर्घत्वम्। "जवतेर्दीर्घश्च" इति। कथम्? केचिदाहुः-- सूत्रे "जू" इति दीर्घः पठितव्य इति। अपरे त्वाहुः- उत्तरसूत्रे दृश्यत इत्युभयोरपि योगयोः शेषः, तच्च विध्यन्तरोपसंग्रहार्थम्, अतोजवतेर्दीर्घो विधीयत इति। ग्रावाणं स्तौतीति ग्रावस्तुत्।"ह्यस्वस्य पिति कृति तुक्" ६।१।६९। "किमर्थमिदम्" इत्यादि द्योद्यम्। "ताच्छीलिकैर्बाध्यते" इति परीहारः। स्यादेतत्-- वाऽसरूपविधिना क्वचिदपि भविष्यतीत्याह-- "वाऽसरूपविधिश्च" इति। एतत्तु "निन्दहिंस" ३।२।१४६ इत्यादौ सूत्र उक्तम्। ननु च "सूददीपदीक्षश्च" ३।२।१५३ इति सूत्रे प्रायिकत्वं ज्ञापकस्य प्रतिपादितम्, वाऽसरूपविधिश्चात्र नास्तीत्याह-- "तस्यैव" इति। "अन्येभ्योऽपि दृश्यते" ३।२।७५, "क्विप् च" ३।२।७६ इत्यादिना भवति॥
बाल-मनोरमा
भ्राजभासरधुर्विद्युतोर्जिपृ?जुग्रावस्तुवः क्विप् ९५९, ३।२।१७७

भ्राजभास। भ्राज, भास , धुर्वि, द्युत, ऊर्जि, पृ? , जु, ग्रावस्तु, एभ्योऽष्टभ्यः क्विप्स्यात्तच्छीलादिषु कर्तृष्वित्यर्थः। विभ्राडिति। "व्रश्चे"ति षः। भा इति। भासेः क्विपि सकारान्तस्य रुत्वविसर्गौ। धूरिति। धुर्वीधातोः क्विप्। "राल्लोपः" इति वकारस्य लोपः। "धु"रिति रेफान्तम्। सुलोपः। "र्वोरुपधायाः" इति दीर्घः। पूरिति। पृ()धातोः क्विप्। "उदोष्ठ()ए"त्युत्त्वम्, रपरत्वम्। "पु"रिति रेफान्तम्, सुलोपे "र्वो"रिति दीर्घः। जुधातोः क्विपि दीर्घं साधयितुमाह-- दृशिग्रहणस्याप्यपकर्षादिति। उत्तरसूत्रादिति भाव-। अत्र व्याख्यानमेव शरणम्। ननु "ग्रावस्तु" इति कथं समस्तनिर्देशः, सुबन्तस्य ग्रावशब्दस्य धातुना समासाऽसंभवादित्यत आह-- ग्रावशब्दस्येति। ग्रावस्तुदिति। पित्त्वात्तुक्।

तत्त्व-बोधिनी
भ्राजभाससधुर्विद्युतोर्जिपृ?जुग्रावस्तुवः क्विप् ७८६, ३।२।१७७

भ्राज। " आ क्वे" रित्युक्तत्वात्()तच्छीलादिष्वयं क्विप्। भ्राजृ दीप्तौ, भासृ दीप्तौ, धुर्वी हिंसायां, द्युत दीप्तौ, ऊर्ज बलप्राणनयोः, पृ? पालनपूरणयोः, जु गतौ सौत्रः। ग्रावपूर्वः-- ष्टुञ् स्तुतौ। विभ्राडिति। "व्रश्चे"ति षत्वम्। जश्त्वचर्त्वे। धूरिति। "राल्लोपः" इति वलोपः। "र्वोरुपधायाः" इति दीर्घः। ऊर्गिति। "चोः कुः"। "रात्सस्ये"ति नियमान्न संयोगान्तलोपः। पूरिति। "उदोष्ठ()पूर्वस्ये"त्युत्वम्। "र्वो"रिति दीर्घः।

* क्विब्वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घोऽसंप्रसारणं च। वाक् प्राडिति। इह दीर्घः, संप्रसारणाऽभावश्च। संप्रसारणप्राप्तिस्तु "वचिस्वपि" "ग्रहिज्यावयी"त्यादिना। श्रयति हरिं श्रीरिति। प्राचा तु श्रयन्त्येतामिति कर्मणि क्विबुदाह्मतः। तत्र "कर्तरि कृ"दिति सूत्रविरोधः स्पष्ट एव। बाहुलकं तु अगतिकगतिः।

* द्युतिगमिजुहोतीनां द्वे च। द्वे चेति। कृतेऽपि द्वित्वे अभ्याससंज्ञेह दुर्लभा, प्रत्यासत्त्या षाष्ठद्वित्व एव प्रवृत्तेः, अतएव आष्ठमिके सा नेत्याशङ्कायामाह-- दृशिग्रहणादिति। दिद्युदिति। "द्युतिस्वाप्यो"रित्यभ्यासस्य संप्रसारणम्। जगदिति।"गमः क्वौ" इति मलोपे तुक्। अत्र द्वे चे"ति चकारेण दीर्घः समुच्चीयमानो द्युतिगम्योर्न भवति, दीर्घश्रुत्या "अचश्चे"ति परिभाषोपस्थानात्। अजन्तस्य जुहोतेरेव संभवतीत्याशयेनाह---- जुहोतेर्दीर्घश्चेति। जुहोतीति जुहूः।

* जुहोतेर्दीर्घश्च। ह्यस्वश्चेति। चकारेण द्वित्वं समुच्चीयते।

* ध्यायतेः संप्रसारणं च। धीरिति। ध्यायतीति धीः। "हलः" इति दीर्घः। ननु ध्यायति पुरुषो न तु धीः, एवं जुहोत्यनया पुरुष इति सर्वसंमतत्वात् कथं तर्हि भवदुक्तार्थः सङ्गच्छत इति चेत्। अत्राह हरदत्तः- करणस्य कर्तृत्वविवक्षायां क्विब् भवति।