पूर्वम्: ३।२।१७
अनन्तरम्: ३।२।१९
 
सूत्रम्
पुरोऽग्रतोऽग्रेषु सर्तेः॥ ३।२।१८
काशिका-वृत्तिः
पुरो ऽग्रतो ऽग्रेषु सर्तेः ३।२।१८

पुरसग्रतसग्रे इत्येतेषु उपपदेषु सर्तेः धातोः टप्रत्ययो भवति। पुरः सरति पुरःसरः। अग्रतःसरः। अग्रेसरः।
न्यासः
पुरोऽग्रतोऽग्रेषु सर्त्तेः। , ३।२।१८

पुरःशब्दः "पूर्वाधरावराणामसि पुरधवश्चैषाम्" ५।३।३९ इत्यसिप्रत्ययान्तो व्युत्पादितः। अग्रतःशब्दोऽपि "तसिप्रकरण आद्यादिभ्य उपसंख्यानम्" (वा।६३४) इति तसिप्रत्ययान्तः। "अग्रे" इति। अग्रशब्दस्यैकारान्तत्वं निपात्यते--अग्रेसर इत्येतद्रूपं यथा स्यात्। ननु च सप्तम्या अलुकाप्येतत् सिध्यति? सत्यम्; यदा सिध्यति तदा सप्तम्यन्त उपपदे प्रत्ययः। यदाग्रः सरतीति, अग्रेण वा सरतीत्यसप्तम्यन्तस्तदा न सिध्यति; तदर्थमेकारान्तत्वं निपात्यते॥
बाल-मनोरमा
पुरोऽग्रततोऽग्रेषु सर्तेः ७४७, ३।२।१८

पुरोऽग्रतः। पुरस्, अग्रतस्, अग्रे-- एषूपपदेषु सर्तेः टः स्यादित्यर्थः। अग्रेसर इति। ननु समासाऽवयवत्वात्सुपो लुकि अग्रसर इति स्यादित्यत आह-- सूत्र इति। कथमिति। एदन्तत्वनिपातनात्कथमग्रसरशब्द इत्यर्थः। समाधत्ते-- बाहुलकादिति। पूर्वे कर्तरि। कर्तृशब्दः कर्तृवाचिनि गौणः। तदाह-- कर्तृवाचिनीति।