पूर्वम्: ३।२।१७९
अनन्तरम्: ३।२।१८१
 
सूत्रम्
विप्रसम्भ्यो ड्वसंज्ञायाम्॥ ३।२।१८०
काशिका-वृत्तिः
विप्रसम्भ्यो ड्वसंज्ञायाम् ३।२।१८०

भुवः इति वर्तते। वि प्र सम् इत्येवं पूर्वाद् भवतेर् धातोः डुप्रतयो भवति, न चेत् संज्ञा गम्यते। विभुः सर्वगतः। प्रभुः स्वामी। सम्भुः जनिता। असंज्ञायाम् इति किम्? विभूर्नाम कश्चित्। डुप्रकरणे मितद्र्वादिभ्य उपसङ्ख्यनम्। मितं द्रवति मितद्रुः। शम्भुः।
न्यासः
विप्रसंभ्यो ड्?वसंज्ञायाम्। , ३।२।१८०

"विभुः" इति। पूर्वेण क्विबेव भवति। "मितद्रवादिभ्य उपसंख्यानम्" इति। आविशेषेण-- संज्ञायाम्, असंज्ञायाञ्च। "मितद्रवादिभ्यः"इति तादर्थ्ये चतुर्थी। मितद्रवादयो डुप्रत्ययान्ताः साधवो यथा स्युरित्येवमर्थः। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तच्व प्रतिपादनं प्रकृतत्वाड्()डुशब्दस्य। तत्रेदं प्रतिपादनम्-- "अन्येभ्योऽपि दृश्यते" ३।२।१७८ इत्यतोऽपि शब्दोऽत्रानुवत्र्तते, तेन मितद्रवादिब्यो डुप्रत्ययो धात्वन्तरादपि भवति, पदान्तरे चेति॥
बाल-मनोरमा
विप्रंसभ्यो ड्वसंज्ञायाम् ९६२, ३।२।१८०

विप्रसंभ्यः। "डु- अ- संज्ञाया"मिति छेदः। विभुरिति। डित्तवसमाथ्र्यादभस्यापि टेर्लोपः। सप्भुरिति। संभवति उत्पादयतीति सम्भुः। तदाह-- जनितेति। मितद्()व्रादिसिद्द्ध्यर्थं डुप्रत्ययस्य उपसङ्ख्यानमित्यर्थः। शम्भुरिति। शं = सुखं , भवति = उत्पादयतीत्यर्थः। तदेवोपपादयति - अन्तर्भावितेति।