पूर्वम्: ३।२।१८०
अनन्तरम्: ३।२।१८२
 
सूत्रम्
धः कर्मणि ष्ट्रन्॥ ३।२।१८१
काशिका-वृत्तिः
धः करम्णि ष्ट्रन् ३।२।१८१

धयतेर् दधातेश्च कर्मणि कारके ष्ट्रन् प्रत्ययः भवति। षकारो डीषर्थः। धयन्ति तां दधति वा भैषज्यार्थम् इति धात्री। स्तनदायिनी आमलकी च उच्यते।
न्यासः
धः कर्मणि ष्ट्रन्। , ३।२।१८१

"धयतेः" इति। "धेट् पाने" (धा।पा।९०२)। "दधातेः" इति। "डुधाञ् धारणपोषणयोः" (धा।पा।१०९२)। "कर्मणि कारके" इति। एतेन कर्मणः प्रत्ययार्थतां दर्शयन्नुपपदत्वमपाकरोति। यदि हि कर्मण उपपदत्वं स्यात् "कर्मण्यण्"३।२।१ इत्यस्मिन्नेव प्रकरणे विदध्यात्। एवं हि द्विः कर्मग्रहणं न कत्र्तव्यं भवति। ननु च यद्यपि द्विः कर्मग्रहणं न कत्र्तव्यं भवति। ननु च यद्यपि द्विः कर्मघणं न कत्र्तव्यं भवति, तदाप्युत्तरसूत्रेण ष्ट्रन्ग्रहमं कत्र्तव्यं जायते? जायतां नाम, लघीयो हि कर्मग्रहणात् ष्ट्रन्ग्रहणम्। नन्विह वत्र्तमान इत्यनुवृत्तेर्वत्र्तमानप्रत्ययो भवति, तत्र तु क्रियमाणे नैतल्लभ्यते? नैतदस्ति;इहापि क्रियमाणे नैव वत्र्तमाने प्रत्ययो भवति। न हि धात्रीत्युक्ते काप्यविशेषा प्रतीयते, किं तर्हि? क्रियाकारकसम्बन्धमात्रविशिष्टा स्त्री प्रतीयते-- आमलकी च दधति तां भैषज्यार्थमिति कृत्वा। तस्मात् "कर्मणि" इति प्रत्ययार्थं एव, नोपपदम्॥
बाल-मनोरमा
धः कर्मणि ष्ट्रन् ९६३, ३।२।१८१

धः कर्मणि ष्ट्रन्। धेटः कृतात्वस्य धाञश्च ध इति पञ्चम्यन्तम्। तदाह-- धेट इत्यादि। षकारात्तकारस्य ष्टुत्वसंपन्नटकारेण निर्देशः, षस्य इत्संज्ञायां लोपे सति ष्टुत्वसंपन्नस्य टस्य निवृत्तिः। तदाह-- धात्रीत्यादि।

तत्त्व-बोधिनी
धः कर्मणि ष्ट्रन् ७८८, ३।२।१८१

धः कर्मणि। कर्मणीति नोपपदम्, "ह्वावामश्चे"त्यनन्तरमेव "धः ष्ट्र"न्निति वक्तव्ये पृथक्कर्मग्रहणाद्व्याख्यानाद्वेत्याशयेनाह-- कर्मण्यर्थे इति। अत एव धीयते पीयत इति धात्री = स्तनदायिनीत्यादि व्याचक्षते।