पूर्वम्: ३।२।१८१
अनन्तरम्: ३।२।१८३
 
सूत्रम्
दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे॥ ३।२।१८२
काशिका-वृत्तिः
दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे ३।२।१८२

दाप् लवने, णीञ् प्रापणे, शसु हिंसायाम्, यु मिश्रणे, युजिर् योगे, ष्टुञ् स्तुतौ, तुद व्यथने, षिञ् बन्धने, षिचिर् क्षरणे, मिह सेचने, पत्ल्̥ गतौ, दंश दशने, णह बन्धने, एतेभ्यो धातुभ्यः करणे कारके ष्ट्रन् प्रत्ययो भवति। दाति अनेन इति दात्रम्। नेत्रम्। शस्त्रम्। योत्रम्। योक्त्रम्। स्तोत्रम्। तोत्त्रम्। सेत्रम्। सेक्त्रम्। मेढ्रम्। पत्रम्। दंष्ट्रा। अजादित्वात् टाप्, न डीप्। दंशेरनुनासिकलोपेन निर्देशो ज्ञापनर्थः, क्ङितो ऽन्यस्मिन्नपि प्रत्यये नलोपः क्वचिद् भवति इति। तेन ल्युट्यपि भवति। दशनम्। नद्घ्री।
लघु-सिद्धान्त-कौमुदी
दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे ८४७, ३।२।१८२

दाबादेः ष्ट्रन् स्यात्करणेर्ऽथे। दात्यनेन दात्रम्। नेत्रम्॥
न्यासः
दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे। , ३।२।१८२

"दाप् लवने " इति। यथा "दाधा घ्वदाप्"१।१।१९ इति सूत्रे "दैप् शोधने" (धापा।९२४) इत्यस्यापि ग्रहणम्। तर्हीहापि कस्मान्न भवति? अनभिधानात्। प्रकृत्यैव हि दात्रमिति ष्ट्रन्प्रत्ययान्तेन लवनस्य करणमुच्यते, न शोधनस्य। "करणे कारके" इति। एतेन करणप्रत्ययार्थतां दर्शयन्नुपपदत्वं निराकरोति। यद्युपपदत्वमस्यस्यात् तदाजादिषु दंष्ट्राशब्दस्य पाठो नोपपद्यते। "योक्त्रम्" इति। "चोः कुः"८।२।३० इति कुत्वम्। "मेढ्रम्" इति। "हो ढः" ८।२।३१ इति ढत्वम्, "झषस्तथोर्धोऽधः" ८।२।४० इति घत्वम्, "ष्टुना ष्टुः" ८।४।४० इति ष्टुत्वम्, "ढो ढे लोपः" ८।३।१३ "दंष्ट्रा"इति। अजादित्वाट्टाप्। "दंशेः"इत्यादि। ननु च यथा "त्यजरज" ३।२।१४२ इति रञ्जेरनुनासिकनिर्देशे धिनुण्प्रत्यये रागीत्यनुनासिकलोपो भवति, तथा दंशेः ष्ट्रन्प्रत्यये न लोपो भविष्यति,तत्कथमस्य ज्ञापकतोपपद्यते? नैष दोषः; यद्ययं निर्देशो दंशेः ष्ट्रन्प्रत्ययेऽनुनासिकलोपार्थः स्यात्, तदा दंष्ट्राशब्दस्याजादिपाठो विरुध्यते। तस्माज्ज्ञापकार्थत्वम्। "नद्ध्री"इति। "नहो धः"८।२।३४ इति धत्वम्, "झषस्तथोर्धो।धः" ८।२।४० इति तकारस्य धत्वम्, धकारस्य "झलां जश् झशि" ८।४।५२ इति जश्त्वम्, "षिद्()गौरादिभ्यश्च" ४।१।४१ इति ङीष्। येऽत्र सेटो धातवः शस्प्रभृतयस्तेषां हि "तितुत्रतथ" ७।२।९ इत्यादिनेट्()प्रतिषेधः॥
बाल-मनोरमा
दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे ९६४, ३।२।१८२

दाम्नी। दाप्, नी, शस, यु , युज, स्तु, तुद, सि, सिच, मिह, पत, दश , नह एषां त्रयोदशानां द्वन्द्वः। "दाप् लवने" इत्यस्य पकारस्य स्थाने "यरोऽनु" इति कृतमकारस्य निर्देशः। अत्र शसेः पतेश्च त्रप्रत्यये इटमाशङ्क्याऽ‌ऽह--