पूर्वम्: ३।२।१८२
अनन्तरम्: ३।२।१८४
 
सूत्रम्
हलसूकरयोः पुवः॥ ३।२।१८३
काशिका-वृत्तिः
हलसूकरयोः पुवः ३।२।१८३

पू इति पूङ्पूञोः सामान्येन ग्रहणम्। अस्माद् धातोः करणे कारके ष्ट्रन् प्रत्ययो भवति, तच्चेत् करणं हल,सूकरयोरवयवो भवति। हलस्य पोत्रम्। सूकरस्य पोत्रम्। मुखम्। उच्यते।
न्यासः
हलसूकरयोः पुवः। , ३।२।१८३

"तच्चेत् करणं हलशूकरयोरवयवो भवति" इति। एतेन हलशूकरयोरित्येषाऽवयवषष्ठी, नत्वभिधेयसप्तमीति दर्शयति। "{मुखमुच्यते-- काशिका, पदमञ्जरी च} मुखमेवोच्यते" इति। नान्यः कर्णाद्यवयवः। एतच्चाभिधानशक्तिस्वाभाव्यात्॥
बाल-मनोरमा
हलसूकरयोः पुवः ९६६, ३।२।१८३

हलसूकरयोः पुवः। पोत्रमिति। "तितुत्रतथसिसुसरे"ति नेट्।

तत्त्व-बोधिनी
हलसूकरयोः पुवः ७९१, ३।२।१८३

तच्चेत्करणमित्यादि। एतेन हलसूकरयोरभिधेयत्वमुपपदत्वं च निरस्तम्। मुखमित्यर्थ इति। तत्रैव रूढेरिति भावः।