पूर्वम्: ३।२।१८३
अनन्तरम्: ३।२।१८५
 
सूत्रम्
अर्तिलूधूसूखनसहचर इत्रः॥ ३।२।१८४
काशिका-वृत्तिः
अर्तिलूधूसूखनसहचर इत्रः ३।२।१८४

ऋ गत्रौ, लूञ् छेदने, धू विधूनने, षू प्रेरणे, खनु अवदारने, षह मर्षणे, चर गतिभक्षणयोः, एतेभ्यो धातुभ्यः करणे कारके इत्रः पत्ययो भवति। अरित्रम्। अवित्रम्। धवित्रम्। सवित्रम्। खनित्रम्। सहित्रम्। चरित्रम्।
न्यासः
अर्त्तिलूधूसूखनसहचर इत्रः। , ३।२।१८४

"धू विधूनने" (धा।पा।१३९८), "षू प्रेरणे" (१४०८) इत्यनयोग्र्रहणम्। "धूञ् कम्पने" (धा।पा।१४८७) " {षूङ-धा।पा।} षूञ् प्राणिगर्भविमोचने" (धा।पा।१०३१) "षूङ प्राणिप्रसवे" (धा।पा।११३२) इत्येतेषां "निरनुबन्धकग्रहणे न सानुबन्धकस्य" (व्या।प।५३) इति परिभाषया ग्रहणं न भवति॥
बाल-मनोरमा
अर्तिलूधूसूखनसहचर इत्रः ९६७, ३।२।१८४

अर्तिलूधू। अर्ति, लू, धू, सू , खन, सह , चर एषां सप्तानां द्वन्द्वात्पञ्चमी।

तत्त्व-बोधिनी
अर्तिलूधूसूखनसहचर इत्रः ७९२, ३।२।१८४

अर्तिलूधूसू। धू विधूनने इति कुटादिरेव गृह्रते, निरनुबन्धकत्वात्। अत एव "गाङ्कुटे"ति ङित्त्वाद्गुणनिषेधे उवङ्। तदाह-- धुवित्रमिति।