पूर्वम्: ३।२।१८४
अनन्तरम्: ३।२।१८६
 
सूत्रम्
पुवः संज्ञायाम्॥ ३।२।१८५
काशिका-वृत्तिः
पुवः संज्ञायाम् ३।२।१८५

पूङ्पूञोः सामान्येन ग्रहणम्। पवतेर् धतोः करणे कारके इत्रप्रत्ययो भवति, समुदायेन चेत् संज्ञा गम्यते। दर्भः पवित्रम्। बर्हिष्पवित्रम्।
लघु-सिद्धान्त-कौमुदी
पुवः संज्ञायाम् ८५०, ३।२।१८५

पवित्रम्॥
लघु-सिद्धान्त-कौमुदी
इति पूर्वकृदन्तम् ८५०, ३।२।१८५

लघु-सिद्धान्त-कौमुदी
८५०, ३।२।१८५

अथोणादयः
लघु-सिद्धान्त-कौमुदी
कृवापाजिमिस्वदिसाध्यशूभ्य उण् १ ८५०, ३।२।१८५

करोतीति कारुः। वातीति वायुः। पायुर्गुदम्। जायुरौषधम्। मायुः पित्तम्। स्वादुः। साध्नोति परकार्यमिति साधुः। आशु शीघ्रम्॥
न्यासः
पुवः संज्ञायाम्। , ३।२।१८५

"बर्हिष्पवित्रम्" इति। पवतेः, पुनातेर्वा। अनेन पवित्रं बर्हिषा कृतम्। बर्हिष्पवित्रम् = कुशविकारः। प्रदेशिन्या अङ्गुलेर्वेष्टनमुच्यते।