पूर्वम्: ३।२।१८५
अनन्तरम्: ३।२।१८७
 
सूत्रम्
कर्तरि चर्षिदेवतयोः॥ ३।२।१८६
काशिका-वृत्तिः
कर्तरि चर्षिदेवतयोः ३।२।१८६

पुवः इति वर्तते। पुवः करने कर्तरि च इत्रप्रत्ययो भवति। ऋषिदेवतयोः यथासङ्ख्यं सम्बन्धः। ऋषौ करणे, देवतायां कर्तरि। पूयते अनेन इति पवित्रो ऽयम् ऋषिः। देवतायाम् अग्निः पवित्रं स मा पुनातु। वायुः सोमः सूर्य इन्द्रः पवित्रं ते मा पुनन्तु।
न्यासः
कत्र्तरि चर्षिदेवतयोः। , ३।२।१८६

बाल-मनोरमा
कर्तरि चर्षिदेवतयोः ३७२, ३।२।१८६

कर्तरि च। पवित्रमिति। पावमान्यादिसूक्तम्। अग्निः पवित्रमिति। पुनातीत्यर्थः। सामान्याभिप्रायमेकवचनं, नपुंसकत्वं च। इति पूर्वकृदन्तम्॥

॥ इति बालमनोरमायाम् पूर्वकृदन्तम्॥

अथ रुधादयः।

अथ श्नम्विकरणा धातवो निरूप्यन्ते।

तत्त्व-बोधिनी
कर्तरि चर्षिदेवतयोः ९७९, ३।२।१८६

कर्तरि चर्षि। इत्रः स्यादिति। करणे कर्तरि चेत्यर्थः। काशिकानुसारेण यतासङ्ख्यं व्याचष्टे-- ऋषौ करणे इति। "कर्तरि कृ"दिति सूत्रस्थभाष्यकैयटयोस्तु यथासङ्ख्यं नेति गम्यत इति शब्दकौस्तुभे स्थितम्। इति पूर्वकृदन्तम्।

अथ उणादिप्रकरणम्।