पूर्वम्: ३।२।१८६
अनन्तरम्: ३।२।१८८
 
सूत्रम्
ञीतः क्तः॥ ३।२।१८७
काशिका-वृत्तिः
ञीतः क्तः ३।२।१८७

ञि इद् यस्य असौ ञीत्। ञीतो धातोः वर्तमने ऽर्थे क्तप्रत्ययो भवति। भूते निष्ठा विहिता, वर्तमने न प्राप्नोति इति विधीयते। ञिमिदा स्नेहने मिन्नः। ञिक्ष्विदा क्ष्विण्णः। ञिधृषा धृष्टः।
न्यासः
ञीतः क्तः। , ३।२।१८७

"मिन्न" इति। "आदितश्च" ७।२।१६ इतीट्प्रतिषेधः। "रदाभ्याम्" ८।२।४२ इति नत्वम्। एवं "क्ष्विण्णः" इत्यात्रापि। "अट्कुप्वाङ"८।४।२ इत्यादिना णत्वम्। "धृष्टः" इति। "धुपिशसी वैयात्ये" ७।२।१९ इतीट्प्रतिषेधः, "ष्टुना ष्टुः" ८।४।४० इति ष्टुत्वम्॥
बाल-मनोरमा
ञीतः क्तः ८९१, ३।२।१८७

ञीतः क्तः। ञि इद्यस्य तस्माद्वर्तमानाक्रियावृत्तेः क्त इत्यर्थः। "तयोरेव कृत्यक्ते"ति भावकर्मणोरेव भूते विहितः क्तो वर्तमाने न प्राप्नोतीत्यारम्भः। क्ष्विण्ण इति। "आदिश्चे"ति नेट्। इद्ध इति। ()आईदितः" इति नेट्।

तत्त्व-बोधिनी
ञीतः क्तः ७३३, ३।२।१८७

क्ष्विण्ण इति। "आदितश्चे"ति नेट्। इद्ध इति। "()आईदितः" इति नेट्। नलोपः।