पूर्वम्: ३।२।१८७
अनन्तरम्: ३।३।१
 
सूत्रम्
मतिबुद्धिपूजार्थेभ्यश्च॥ ३।२।१८८
काशिका-वृत्तिः
मतिबुद्धिपूजाऽर्थेभ्यश् च ३।२।१८८

मतिः इच्छा। बुद्धिः ज्ञानम्। पूजा सकारः। एतदर्थेभ्यश्च धातुभ्यो वर्तमानार्थे क्तप्रत्ययो भवति। राज्ञां मतः। राज्ञाम् इष्टः। राज्ञां बुद्धः। राज्ञां ज्ञातः। राज्ञां पूजितः। राज्ञाम् अर्चितः। अनुक्तसमुच्चयार्थश्चकारः। शीलितो रक्षितः क्षान्त आक्रुष्टो जुष्ट इत्यपि। रुष्टश्च रुषितश्चोभावभिव्याहृत इत्यपि। १। हृष्टतुष्टौ तथा कान्तस् तथोभौ संयतोद्यतौ। कष्टं भविष्यति इत्याहुरमृतः पूर्ववत् समृतः। २। कष्टः इति भविष्यति काले। अमृतः इति पूर्ववत्। वर्तमाने इत्यर्थः। तथा सुप्तः, शयितः, आशितः, लिप्तः, तृप्तः इत्येवम् आदयो ऽपि वर्तमाने दृअष्टव्याः। इतिश्रीजयादित्यविरचितायां काशिकायां वृत्तौ तृतीयाध्यायस्य द्वितीयः पादः। तृतीयाध्यायस्य तृतीयः पदः।
न्यासः
मतिबुद्धिपूजार्थेभ्यश्च। , ३।२।१८८

"मतः" इति। "मन ज्ञाने" (धा।पा।११७६)। इट्प्रतिषेधः "एकाचः" ७।२।१० इत्यादिना, "अनुदात्तोपदेश" ६।४।३७ इत्यादिनानुनासिकलोपः। "इष्टः" इति। "{इष--धा।पा।} इषु इच्छायाम्"(धा।पा।१३५१)। "उदितो वा" ७।२।५६ इति विभाषितत्वान्निष्ठायां "यस्य विभाषा" ७।२।१५ इतीट्प्रतिषेधः। "बुद्धः" इति। "बुध अवगमने" (धा।पा।८५८)। पूर्ववद्धत्वम्, तकारस्य जश्त्वम्,धकारस्य दकारः। "पूजितः, अर्चितः" इति। "{भ्वादौ नोपलभ्यते;चुरादित्वेनैव प्रसिद्धः।} पूज पूजायाम्" (धा।पा।१६४२);"अर्च पूजायाम्" (धा।पा।२०४) भ्वादी। एतौ चारदी च, तत्र यदा चुरादिभ्यां प्रत्ययस्तदा "निष्ठायां सेटि" ६।४।५२ इति णिलोपः। "शीलितः" इत्यादौ "शील समाधौ"(धा।पा।६५८) "क्षमुष् सहने" (धा।पा।४४२),"क्रुश {आह्वाने रोदने च- धा।पा}आह्वाने" (धा।पा।८५६), "जुषी प्रीतिसेवनयोः (धा।पा।१२८८)," रुष रोषे" (धा।पा।१६७०), "ह्मञ् हरणे" (धा।पा।८९९), "ह्मष तुष्टौ" (धा।पा।१२२९), "ह्मषु अलीके" (धा।पा।७०९),"तुष {प्रीतौ-धा।पा।} तुष्टौ (धा।पा।११८४), "कमु कान्तौ" (धा।पा।४४३), "यम उपरमे" (धा।पा।९८४), "कष हिंसायाम्" (धा।पा।६८५), "मृङ प्राणत्यागे" (धा।पा।१४०३)-- इत्येतेषां धातूनां यथाक्रमेणैतानि रूपाणि। तत्राद्यौ सेटौ। यश्चात्र कश्चिदुदिदूदिच्च, तस्य निष्ठायां "यस्य विभाषा" ७।२।१५ इतीट्()प्रतिषेधः। यस्त्वीदित् तस्यापि "()आईदितो निष्ठायाम्" ७।२।१४ इतीट्()प्रतिषेधः। ह्मषेरेव "ह्मषेर्लोमसु" ७।२।२९ इत्यादिना "रुष्यमत्वरसंघुषास्वनाम्" ७।२।२८ इति विभाषितेट्। "{नास्ति-काशिका} कान्तः, क्षान्तः" इति। "अनुनासिकस्य क्विझलोः क्ङिति" ६।४।१५ इति दीर्घः। "आक्रुष्टः" इति। व्रश्चादिना ८।२।३६ षत्वम्। "संयतः" इति। पूर्ववदनुनासिकलोपः। "अमृतः" इति। गत्यर्थादीनां कत्र्तरि क्तः। "पूर्ववत्" (इति)। यथा शीलादिषु वत्र्तमाने निष्ठा तथाऽमृतशब्दस्यापीत्यर्थः। "सुप्तः"इति। स्वपेः सम्प्रसारणम्। "शयितः" इति। "निष्ठा शीङ" १।२।१९ इत्यादिना कित्त्वप्रतिषेधाद्()गुणः। "आशितः" इति। "अश भोजने" (धा।पा।१५२३) आङपूर्वः, "लिप उपदेहे" (धा।पा।१४३३), "तृप प्रीणने" (धा।पा।११९५)। अत्र अशिशीङौ सेटौ; शेषास्त्वनिटः। "एकाचः" ७।२।१० इत्यादिनेट्प्रतिषेधः। यद्यपि शीलादयो वत्र्तमानकाले व्युत्पाद्यन्ते, तथापि शीलितो देवदत्तेन, रक्षितो देवदत्तेन आक्रुष्टो देवदत्तेनेत्यत्र "क्तस्य च वत्र्तमाने" २।३।६७ इति षष्ठी न भवति। यथा न भवति तथा तत्रैव प्रतिपादितम्॥ इति श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धपादविरचितायां काशिकाविवरणपञ्जिकायां तृतीयस्याध्यायस्य द्वितीयः पादः। ------------------- अथ तृतीयाध्यायस्य तृतीयः पादः <उणादयो बहुलम्। ३।३।१> "वत्र्तमान इत्येवे"ति। "वत्र्तमान लट्" ३।२।१२३ इत्यतो वत्र्तमानग्रहणमनुवत्र्तत इति दर्शयति। "सञ्ज्ञायाम्" इति। वत्र्तत इति "पुवः संज्ञायाम्" ३।२।१८५ इत्यतः। "बाहुलकम्" इत्यादि। "ला आदाने" (धा।पा।१०५८), बहूनर्थाल्लातीति बहुलम्। "आतोऽनुपसर्गे कः" ३।२।३ बहवः पुनरर्थाः क्वचित्प्रवृत्त्यादयः। तथा चोक्तम्- क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव। विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति॥ इति। बहुलस्य भावो बाहुलकम्। "द्वन्द्वमनोज्ञादिभ्यश्च" ५।१।१३२ इति मनोज्ञादित्वाद्घञ्। बह्वर्थादानं बहुलशब्दस्य प्रवृत्तिनिमित्तमिति तत्रैवायं भावप्रत्ययः। तद्()बाहुलकं प्रकृतेस्तनुदृष्टेरुक्तम्। प्रत्ययमनादिं कृत्वा यः पूर्वमुपादीयते शब्दः सा प्रकृतिरित्युच्यते। प्रत्ययात् पूर्वं क्रियत इति प्रकृतिः। प्रकर्षेण नियमेन प्रत्ययः क्रियते तस्या इति वा प्रकृतिः। "प्रकृतेः"इति। जातौ षष्ठ()एकवचनम्। "तनुदृष्टेः" इति। कर्मणि ल्यब्लोपे पञ्चमी। तनुदृ()ष्ट वीक्ष्य बाहुलकमुक्तमिति। "विभाषा गुणेऽस्त्रियाम्" २।३।२५ इत्यनेन त्विह पञ्चमी न भवति; अस्त्रियामिति प्रतिषेधात्। अथ वा "विभाषा गुणे" इति योगविभागादिह पञ्चमी वेदितव्या। तनुशब्दः शरीरवचनोऽप्यस्ति, गुणवचनोऽपि; इति तु गुणवचनः प्रकृतेरल्पत्वं नाम यो गुणस्तस्य वाचकः। दर्शनं दृष्टिः = उपलब्धिः, तनोर्गुणस्य दृष्टिस्तनुदृष्टिः। ततो गुणो नित्यं गुणिनमपेक्षत इति गमकत्वात् तनुशब्दस्य प्रकृतिमपेक्षमाणस्यापि दृष्टिशब्देन समासो भवति। अयं त्वर्थः- प्रकृतेर्गुणस्य, तयोर्दर्शनादिति। अथ वा तनुर्दृष्टिर्यस्याः प्रकृतेः सा तनुदृष्टिः। अत्र पक्षे यद्यपि तनुगुणो दृष्टेर्विशेषणम्, तथाप्यसौ दृष्टेः प्रकृतेरपि विशेषणत्वेन प्रतीयत एव। प्रकृतेस्तनुत्वादेव हि तद्()दृष्टितनुत्वं भवति। उणादिषु पञ्चपाद्यां स्वल्पाः प्रकृतयो दृश्यन्ते, ततोऽन्याभ्योऽपि च प्रकृतिभ्यः प्रत्यया दृश्यन्ते, तस्माद्बहुलग्रहणाद्भवन्ति। यथा हि "ह्मषेरुलच्" (पं।उ।१।९८) इति "ह्मषु अलीके" (धा।पा।७०९) इत्यस्मादुलजुक्तः, तथा "शकि शङ्कायाम्" (धा।पा।८६) इत्यतोऽपि भवति- शङ्कुलेति। किञ्च, प्रायसमुच्चयनादपि तेषां तदुक्तमिति सम्बन्धः। तदिति बाहुलकं परामृश्यते। तेषामुणादीनां प्रायेण बाहुल्येन समुच्चयनं ग्रहणं विधानं वा प्रायसमुच्चयनम्। "तृतीया" २।१।२९ इति योगविभागात् समासः। अपिशब्दः समुच्चये। न केवलं प्रकृतेस्तनुदृष्टेस्तद्()बाहुलकमुक्तम्, अपि तु प्रायसमुच्चयनादपि तेषामेतदुक्तं भवति। न केवलं प्रकृतस्तन्व्यः पठिताः, अपि तु प्रत्यया अपि प्रायेणसमुच्चिताः, न सर्वे, तदर्थं बाहुलकमिति। बाहुलकाद्वयवहिता अपि ते चेत् प्रत्यया उन्नीय विधीयन्ते। तथा हि "अर्त्तेः क्युरुच्च"(पं।उ।५।१७) इत्यर्त्तिधातुः पठितः,फिडफिड्डौ तु प्रत्ययौ न विहितौ तथापि ऋफिडऋफिड्डशब्दयोर्दर्शनात् तावपि च विधीयेते। "कार्यसशेषविधेश्च तदुक्तम्" इति। चशब्दः समुच्चये। पूर्वोक्तकारणद्वयादेतस्मात् तद्बाहुलकमुक्तम्। विधानं विधिः = कारणम्, सह शेषेण वत्र्तते यो विधिः स सशेषः, सशेषश्चासौ विधिश्च सशेषविधिः, कार्याणां सशेषविधिः कार्यसशेषविधिः। तस्माच्च बाहुलकमुक्तम्। एतदुक्तं भवति- प्रकृतेः प्रत्ययाश्रितानि कार्याणि न निःशेषाणि पञ्चपाद्यां दर्शितानि, इष्यन्ते चादर्शितान्यपि तानि। अतस्तत्सिद्ध्यर्थं तद्()बाहुलकमुक्तम्। तेन ऋफिड, ऋफिड्()ड- इत्यत्र गुणप्रतिषेधः सिद्धो भवति। एवमादि तावत् प्रत्ययाश्रितं कार्यं सिद्धं भवति। "षणु दाने" (धा।पा।१४६४), "ञमन्ताड्डः" (पं।उ।१।११३) इति षण्डः। अत्र "धात्वादेः षः सः" ६।१।६२ इति सत्वं न भवति। सत्यपि वा सत्वे पुनः षत्वमेव क्रियत इत्येवमादि प्रकृत्याश्रितमपि कार्यं बाहुलकाद्भवति। "नैगमरूढञिभवं हि सुसाधु" इति। निगमः = छन्दः, तत्र भवा नैगमाः, ऋगयनादिपाठादण्। निगमस्य वेमे नैगमाः। रूढिः = प्रसिद्धिः; भवन्तीति भवाः, रूढौ बवाः। "सप्तमी" २।१।३९ इति योगविभागात् समासः। लोकप्रसिद्धा इत्यर्थः। नैगमाश्च रूढिभवाश्च नैगमरूढिभवम्। "सर्वो द्वन्द्वो विभाषैकवद्भवति" (व्या।प।९१) इत्येकवद्भाव#ः, "स नपुंसकम्" २।४।१७ इति नपुंसकलिङ्गता। हिशब्दो यस्मदार्थे। यस्मादेतदेव बाहुलकमनेकार्थस्य साधकम्, तस्मान्नैगमं रूढिभवं सुष्ठु साधु भवति; व्याकरणे बहुलग्रहणेन संस्कृतत्वात्। अन्यथाऽसंस्कृसत्वाद्()गाव्यादिशब्दानामिव तस्यासाधुत्वं स्यात्। अन्यैरपि प्रमाणपुरुषैर्नैगमरूढिभवानां व्युत्पाद्यत्वमभ्युपेतमिति दर्शयितुमाह-- "नाम च धातुजम्" इत्यादि। "निरुक्ते" इति। निरुक्ते शास्त्रे। "नाम" इति। प्रातिपदिकम्। तस्य हीयमन्याचार्यसंज्ञा। धातोर्जातत्वाद्धातुजम्। धातुग्रहणमुपलक्षणम्, प्रत्ययागमादयोऽपि गृह्रन्ते। निरुक्तकारः स्वशास्त्रे निरुक्ते प्रातिपदिकं धातुजमाह; धातुप्रत्ययकादिविभागेन व्युत्पादितत्वात्। चशब्दोऽवधारणे, भिन्नक्रमश्च। धातुजमेवेत्येवं द्रष्टव्यम्। शकटस्य पुत्रः शाकटायनः सोऽपि नाम धातुजमेवाह। तदेवं निरुक्तकारशाकटायनदर्शनेन त्रयी शब्दानां प्रवृत्तिः-- जातिशब्दाः, गुणशब्दाः, क्रियाशब्दा इति;न सन्ति यदृच्छाशब्दा इति। अथ वा-- जातिगुणशब्दानामपि क्रियाशब्दत्वमेव; धातुजत्वात्। ततश्चैकैव शब्दानां प्रवृत्तिः-- क्रिया शब्दा इति। अथ यदि प्रकृतिविशेषं प्रत्ययविशेषञ्चोपादायन व्युत्पादितं शब्दरूपम्, तस्य कथं धातुजत्वं वेदितव्यम्, न हि प्रकृतिप्रत्ययानवधारणे धातुजत्वं शक्यं निश्चेतुमित्यत आह-- "यन्न" इत्यादि। अर्थशब्दः प्रयोजनवाची, परमर्थः प्रयोजनं यस्य प्रकृत्यादेः स पदार्थः। कथं पुनः पदमर्थः प्रकृत्यादेर्भवति? तदुद्दिश्य तदुपादानात्। पदं हि व्युत्पादयिष्यामीत्येवमर्थं प्रकृत्यादेरुपादानाम्। कस्मात्? प्रकृतिप्रत्ययश्च पदार्थः, तस्य विशेषः पदार्थविशेषः। समुत्थानं समुत्थः = प्रादुर्भावः;"सुपि स्थः" ३।२।४ इत्यत्र योगविभागेन भाव एव कप्रत्ययः। पदार्थविशेषात् समुत्थः प्रादुर्भावो यस्य तत् "पदार्थविशेषसमुत्थम्"। यदेवंविधं न भवति शब्दरूपं प्रत्यतः प्रकृतिततश्च तदूह्रम्। धातुजत्वेनापि तदुक्तं भवति-- यस्य प्रतिपदोक्ता प्रकृतिप्रत्ययविशेषानासादितात्मा निर्वृत्तिस्तस्य प्रकृतिविशेषात् प्रत्ययविशेषाच्च धातुजत्वं निश्चेतव्यमिति। ननु च तथाविधस्य प्रकृतिप्रत्ययविशेषस्यापरिज्ञानादेवाशक्यं धातुजत्वं निश्चेतुमिति मत्वा परेण चोदितम्, तत्कथं प्रत्ययतः प्रकृतेश्च तदूह्रमित्युक्तं युज्यते? नैष दोषः;एवं हि ब्राउवताऽनेन प्रकृतिप्रत्ययावेवं तावद्ध्यूहितव्यौ,ततस्ताभ्यां तच्छब्दरूपमित्येतदप्यर्थादुक्तं भवति। न ह्रनवधारिताभ्यां प्रकृतिप्रत्ययाभ्यां शक्यं धातुजत्वं कस्यचिन्निश्चेतुमिति किमत्रायुक्तम्? यत्र प्रसिद्धप्रत्ययावयवेन शब्दान्तरेण कस्याचिद्भागस्य सारूप्याधिगमोऽस्ति तत्र प्रत्ययं दृष्ट्वा परिशिष्टो भागः प्रकृतित्वेनोत्प्रेक्षितव्यः। यथा-- "उषिकुषिगर्त्तिभ्यस्थन्" (पं।उ।२।४) इति थन्प्रत्ययान्तमोष्ठादिकं प्रसिद्धप्रत्ययावयवम्। तेन च डित्थवित्थशब्दयोः किञ्चित् सारूप्यमस्ति,ततैषामिव हि तेषां थशब्दोऽवयवो विशिष्टदेशवत्र्ती विद्यते। तत्र थन्प्रत्यान्ते शब्दरूपे यो दृष्टस्थशब्दः प्रत्ययसंज्ञकस्तत्सादृश्यात् डित्थडवित्थशब्दस्थं थशब्दं प्रत्ययमवधार्य ततः परिशिष्टस्तयोर्भागो डिड्डविदिति च धातुत्वेनोह्रः। ततश्चैवं सूत्रं कत्र्तव्यम्-- डीङस्थण् डिड्डविच्चेति। "डीङ विहासा गतौ" (धा।पा।११३५) इत्यस्मात् थन्प्रत्ययः, डीङश्च डिड्डविदित्येतावादेशौ भवतः। यत्र तु शब्दरूपे निज्र्ञातधात्ववयवेन शब्दान्तरेण किञ्चिद्भागगतं सारूप्यमस्ति, तत्र प्रकृतिं दृष्ट्वा परिशिष्टो भागः प्रत्ययत्वेनोहितव्यः, यथा-- ऋतमिति दृष्टं शब्दरूप प्रसिद्धप्रकृत्यवयवम्, तेन ऋफिडशब्दस्य ऋफिड्डशब्दस्य च किञ्चिदभागगतं सारूप्यमस्ति, उभयेषां तेषामुकारादित्वात्। तत्र निष्ठाप्रत्ययान्त ऋतशब्दे य ऋकारावयवो धातुसंज्ञकस्तत्सादृश्यादृफिडऋफिड्डशब्दस्थञ्च ऋवर्णं धातुमवधार्य ततः परिशिष्टस्तयोर्भागः फिड इति फिड्ड इति च प्रत्ययत्वेनोह्रः। ततश्चैवं सूत्रं कत्र्तव्यम्-- "अर्त्तेः फिडफिड्डौ" इति, "ऋ गतौ" (धा।पा।१०९८) इत्यस्मात् फिडफिड्डौ प्रत्ययौ भवतः। ऋफिडः, ऋफिड्डः। गुणः पूर्वोक्तात् कारणान्न भवति। अथ वा-- कितावेवैतौ प्रत्ययौ विधातव्यौ। एवं प्रकृतिप्रत्ययादूहित्वा तस्य शब्दरूपस्य धातुजत्वमूहितव्यम्। यत् प्रकृतिप्रत्ययविशेषावयवानुगतं न तद्धातुजत्वं व्यभिचरति, यथा-- कत्र्तव्यं करणीयमित्येवमादयः शब्दाः। "ऊह्रम्" इति। अनुज्ञाव्यम्। न यत्र क्वचिदूहः कत्र्तव्यः,अपि तु विशिष्ट एव विषय इति दर्शयन्नाह-- "संज्ञासु" इत्यादि। य एते निरूढाः साधुत्वेव शब्दरूपास्तेष्वेव संज्ञात) सूहः कत्र्तव्यो, नान्यत्र। "धातुरूपाणि"इति। कल्पयितव्यानीति शेषः। "प्रत्ययाश्च ततः परे" इति। कल्पयितव्या ति शेषः। "कार्यात्" गुणाभावदिकात्। "विद्यात्"जानीयात्। "अनुबन्धं" ककारादिकम्। एतदनन्तरोक्तं "शास्त्रमुणादिषु"। शास्त्रोपनिबन्धनत्वाच्छास्त्रविषयत्वाद्वा शास्त्रमित्युक्तम्। यदि तह्र्रत्र सूत्रे "संज्ञायाम्" ३।२।१८५ इत्यनुवत्र्तते "वत्र्तमाने"३।२।१२३ इति च, बहुलग्रहणं च क्रियते, तत् किमर्थमुणादिषु "वत्र्तमाने पृषद्वृहज्जगच्छतृवच्च" (द।उ।६।५) इति वत्र्तमानग्रहणम्? "धृषेर्धिष च संज्ञायाम्"(द।उ।५।२७) इति संज्ञाग्रहणम्, "बहुलमन्यत्रापि" (द।उ।५।२३) इति बहुलग्रहणञ्च क्रियते? "भूतेऽपि दृशन्ते" ३।३।२ इति वचनाद्भूतेऽपि पृषदादयो भवन्तीत्याशङ्कानिवृत्त्यर्थम्। वत्र्तमानग्रहणं प्रकृताया एव संज्ञाया अनुवृत्तेर्दृढीकरणार्थम्। पुनः संज्ञाकरणं बहुलवचनादसंज्ञायामपि भवन्तीत्याशङ्कानिवृत्त्यर्थं वा। अस्यैव बहुलस्य स्मरणार्थं पुनर्बहुलग्रहणम्। एवं हि विस्मरणशीलानामनुग्रहः कृतो भवति॥
बाल-मनोरमा
मतिबुद्धिपूजार्थेभ्यश्च ८९२, ३।२।१८८

मतिबुद्धि। मति, बुद्धि, पूजा , अर्थ एषामिति विग्रहः। "वर्तमाने क्त" इति शेष-। "तयोरेवे"ति भावकर्मणोरेव। मतः इष्ट इति। इच्छार्थकान् मनेरिषेश्च क्तः। "तीषसहे"ति वेट्कत्वात् "यस्य विभाषे"ति नेट्। शीलितो रक्षित इति। भाष्यस्थश्लोकोऽयम्। इत्यादीति। आदिना "रुष्टश्च रुषितश्चोभावभिव्याह्मत इत्यपि। ह्मष्टतुष्टो तथाक्रान्तस्तथोभौ संयतोद्यतौ। कष्टं भविष्यतीत्याहुरमृतः पूर्ववत्स्मृतः"। इति सङ्ग्रहः। कष्टशब्दो भविष्यति, अमृतशब्दो वत्र्तमाने इत्यर्थः।

तत्त्व-बोधिनी
मतिबुद्धिपूजार्थेभ्यश्च ७३४, ३।२।१८८

राज्ञामिति। "क्तस्य च वर्तमाने" इति षष्ठी। इष्ट इति। "तीषसहे" ति वेट्कत्वात् "यस्य विभाषे"ति नेट्। शीलित इत्यादि। शील समाधौ, रक्ष पालने, क्षमूष् सहने, क्रुश आह्वाने, जुषी प्रीतिसेवनयोः।