पूर्वम्: ३।२।१८
अनन्तरम्: ३।२।२०
 
सूत्रम्
पूर्वे कर्तरि॥ ३।२।१९
काशिका-वृत्तिः
पूर्वे कर्तरि ३।२।१९

पूर्वशब्दे कर्तृवाचिन्युपपदे सर्तेर् धातोः टप्रत्ययः भवति। पूर्वः सरति इति पूर्वसरः। कर्तरि इति किम्? पूर्वं देशं सरति इति पूर्वसारः।
न्यासः
पूर्वे कत्र्तरि। , ३।२।१९

"पूर्वशब्दे कर्त्तृवाचिन्युपपदे प्रत्ययः" इति। एतेन कत्र्तरीत्यनेनोपपदं विशिष्यते, न कत्र्ता। प्रत्ययार्थो निर्दिश्यत इति दर्शयति; तस्य "कत्र्तरि कृत्" ३।४।६७ इत्यनेनैव निर्देशात्। अयुक्तत्वादिह निर्देशस्येत्यभिप्रायः। ननु च पूर्वः सरतीत्यत्रासामथ्र्यमस्ति, तथा हि-- पूर्वशब्दोऽयं व्यवस्थावचनः, अवयववाची वा। तत्र पूर्वस्मिन् कल्पेऽवधिरपेक्षणीय-- अस्मादयं पूर्व इति। इतर()स्मस्त्ववयवी पदार्थः, यथा -- पूर्व कायस्येति, उभयोरपि सापेक्षितत्वात्, असामर्थ्ये सति प्रत्ययानुत्पत्तिः? नैष दोषः; पूर्वशब्दः सम्बन्धिशब्दः। सापेक्षेऽपि वृत्तिर्ननु भवत्येव, यथा-- देवदत्तस्य गुरुकुलमिति॥