पूर्वम्: ३।२।१
अनन्तरम्: ३।२।३
 
सूत्रम्
ह्वावामश्च॥ ३।२।२
काशिका-वृत्तिः
ह्वावाऽमश् च ३।२।२

ह्वेञ् स्पर्धायां शब्दे च, वेञ् तन्तुसन्ताने, माङ् माने इत्येतेभ्यश्च कर्मण्युपपदे अण् प्रत्ययो भवति। कप्रत्ययस्य अपवादः। स्वर्गह्वायः। तन्तुवायः। धान्यमायः।
न्यासः
ह्वावामश्च। , ३।२।२

"ह्वेञ् स्पद्र्धायाम्"। "वेञ् तन्तुसन्ताने" इति। अथ "वा गतिगन्धनयोः" (धा।पा।१०५०) इत्यस्य ग्रहणं कस्मान्न भवति? अकर्मकत्वात्। कर्मणि चेहानुवत्र्तते। "माङ माने" इति। ङकारानुबन्धवतो मा इत्यस्योपलक्षणार्थमेतत्। "मेङ प्रणिदाने" (धा।पा।९६१) इत्यस्यापि ग्रहणमिष्यते; "गामादाग्रहणेष्वविशेषः" (व्या।प।१२४) इति वचनात्। ननु यदि गामादाग्रहणेष्वविशेषस्तदा "मीञ् हिंसायाम्" (धा।पा।१४७६), "डुमिञ् प्रक्षेपणे"(धा।पा।१२५०) इति तयोरप्येज्विषय आत्त्वे कृते मेत्येतद्रूपं सम्पद्यते? भवत्येवाभ्यामणेवेति पूर्वसूत्रेण प्राप्तस्य। "स्वर्गह्वायः" इति। "आतो युक् चिण्कृतोः" ७।३।३३ इति युक्॥
बाल-मनोरमा
ह्वावामश्च ७३१, ३।२।२

ह्वावामश्च। "ह्वेञ् स्पर्धायाम्" "वेञ् तन्तुसन्ताने" अनयोः कृतात्वयोर्निर्देशः, "माङ् माने" एषां द्वन्द्वात्पञ्चम्येकवचनम्। एभ्य इति। कर्मण्युपपदे एभ्योऽण् स्यादित्यर्थः। ननु "कर्मण्य"णित्येव सिद्धे किमर्थमिदमित्यत आह-- कापवाद इति। "आतोऽनुपसर्गे कः" इत्यस्याऽणपवादस्य वक्ष्यमाणस्य बाधनार्थमित्यर्थः। माङ्मेङोरिह ग्रहणं, नतु "मा माने" इत्यस्य, अकर्मकत्वात्। स्वर्गह्वाय इति। यद्यपि पराभिभवेच्छायां स्पद्र्धायां परिभिभवस्य कर्मणो धात्वर्थत्वेनोपसङ्ग्रहादकर्मक इत्युक्तम्, तथापि इहाऽभिभवेच्छा धात्वर्थः। स्वर्गमभिभवितुं वाञ्छतीत्यर्थः। अन्तरङ्गत्वादात्वे कृते आतो युक्। एवमग्रेऽपि।

तत्त्व-बोधिनी
ह्वावामश्च ६१०, ३।२।२

ह्वावामश्च। कापवाद इति। "आतोऽनुपसर्गे" इति प्राप्तिर्बोध्या। स्वर्गह्वाय इत्यादि। ह्वेञ्वेञोः "आदेचः" इत्यात्वे "आतो यु"गिति युक्। माङ् माने, मेङ् प्रणिदाने अनयोरिह ग्रहणं, न तु मा माने इत्यस्य, अकर्मकत्वात्। कविधानस्य फलमाह---आतो लोप इति।