पूर्वम्: ३।२।२४
अनन्तरम्: ३।२।२६
 
सूत्रम्
हरतेर्दृतिनाथयोः पशौ॥ ३।२।२५
काशिका-वृत्तिः
हरतेर् दृतिनाथयोः पशौ ३।२।२५

दृति नाथ इत्येतयोः कर्मणोरुपपदयोः हरतेर् धातोः पशौ कर्तरि इन् प्रत्ययो भवति। दृतिं हरति दृतिहरिः पशुः। नाथहरिः पशुः। पशौ इति किम्? दृतिहारः। नाथहारः।
न्यासः
हरतेर्दृतिनाथयोः पशौ। , ३।२।२५

"पशौ कत्र्तरि" इति। एतेन पशुग्रहणं प्रत्ययार्थस्य कर्त्तुर्विशेषणमिति दर्शयति। प्रत्ययार्थत्वं तु "कत्र्तरि कृत्" ३।४।६७ इति वचनात्। कुतः पुनरेतदवसितम्-- प्रत्ययार्थस्य विशेषणमेवेति, न पुनर्बाधकमेवेति? तदुच्यते-- धातोः प्रत्ययस्य विधानात् तदर्थस्य येन सम्बन्धस्तत्र वाच्ये प्रत्ययेन भवितव्यम्। धात्वर्थः = क्रिया तस्याश्च साधनेन सम्बन्धः, न वस्तुस्वरूपेण। साधनञ्च शक्तिः, न वस्तुस्वरूपम्। पशुशब्देन वस्तुस्वरूपेण स्वार्थमाचष्टे। न शक्तिस्वरूपेणेति। तेनाशक्तिस्वरूपे प्रत्याय्यमानः पशुर्नार्हति प्रत्ययार्थो भवितुम्। सोऽप्रत्ययार्थः सन्नशक्तित्वात् कथमिमं प्रत्ययार्थ बाधेत। तस्मात् प्रत्ययार्थः, तेन कत्र्तरि विशिष्यत इति युक्तमुक्तम्-- पशौ कत्र्तरीति। एष न्यायोऽन्यत्रापि प्रत्ययार्थविशेषणे द्रष्टव्यः॥