पूर्वम्: ३।२।२९
अनन्तरम्: ३।२।३१
 
सूत्रम्
नाडीमुष्ट्योश्च॥ ३।२।३०
काशिका-वृत्तिः
नाडीमुष्ट्योश् च ३।२।३०

नाडी मुष्ति इत्येतयोः कर्मणोरुपपदयोः ध्माधेटोः खश्प्रत्ययो भवति। अत्र अपि घ्यन्तस्य अपूर्वनिपातो लक्षणव्यभिचारचिह्नम्। तेन सङ्ख्यातानुदेशो न भवति। नाडिन्धमः। मुष्टिन्धमः। नाडिन्धयः। मुष्टिन्धयः। अनुक्तसमुच्चयार्थश्चकारः। घटिन्धमः। घटिन्धयः। खारिन्धमः। खारिन्धयः। वातन्धमः पर्वतः। वातन्धयः।
न्यासः
नाडीमुष्ट�ओश्च। , ३।२।३०

"अत्रापि"इत्यादिना नाडीमुष्टिशब्दो हि ध्यन्तः तस्य हि "द्वन्द्वे घि" २।२।३२ इति पूर्वनिपाते प्राप्ते योऽयमपूर्वनिपातः कृतः स पूर्वनिपातलक्षणव्यभिचारचिह्नम्, अत इहापि संख्यातानुदेशो न भवितीत्यपि सूचयति। अथ प्रत्येकमुपपदाभ्यां धातोः प्रत्येकं सम्बन्धः। स चोदाहरणेनैव वृत्तावभिव्यक्तः। "अनुक्तसमुच्चयार्थश्चकारः" इति। तेन घटीखारीवातशब्देष्वप्युपपदेषु ध्माधेटोः खश् भवति। यद्येवम्, वैषम्यादेव संख्यातानुदेशो न भविष्यतीति निरर्थकस्तदभावार्थो घ्यन्तस्यापूर्वनिपातः? उच्यते-- वाक्ये भेदेन द्वे ह्रत्र, एकेन वाक्येन नाडीमुष्टी-- इत्येतयोर्ध्माधेटोः खश् भवतीति। अतः "नाडीमुष्ट्योः" इत्येकं वाक्यम्, चकारस्यानुक्तसमुच्चयार्थत्वात् घटीखारीवातशब्देष्वप्युपपदेषु ध्माधेटोः खश् भवतीति द्वितीयम्। तत्र पूर्वस्मिन् वाक्ये समानत्वमस्तीति स्यादेव संख्यातानुदेशः॥
तत्त्व-बोधिनी
कमेर्णिङः १२६, ३।२।३०

आम्- कारयामास। अन्त-- गण्डयन्तो मण्डयन्तः। "तृ()भूवहिवसिभासिसाधिगडिमण्डिजिनन्दिभ्यश्चे"त्यौणादिको झच्। "झोऽन्तः"। "स्पृहिगृही"त्यालुच्। स्पृहयालुः। "श्रुदक्षिस्पृहिगृहिभ्यः" इत्यौणादिक आय्यः। "स्पृयाय्यः"। "स्तनिह्मषिपुषी"त्यौणादिक एव इत्नुच्। स्तनयित्नुः। "णेश्छन्दसीति" इष्णुच्। "वीरुधः पारयिष्णवः"।

तत्त्व-बोधिनी
नाडीमुष्ट�ओश्च ६३३, ३।२।३०

नाडीमुष्ट()ओश्च। यथासङ्ख्यनेति। एतच्चेहैव सूत्रे भाष्ये, वृत्तौ च स्थितम्। यत्तु "यथासङ्ख्य"मिति सूत्रे नाडीमुष्ट()ओरित्युदाह्मतं भाष्ये तत्प्राप्तमात्राभिप्रायेणेत्येके। शब्दकौस्तुभे तु मतभेदेन तद्बोध्यमिति स्थितम्।

* घटीखारीखरीषूपसङ्ख्यानम्। घटीखारीखरीष्वति।जयादित्यस्तु वातशब्दमप्युदाजहार-- वातंधमः वातंधय इति, तत्तु भाष्यादौ न दृश्यत इति मूलेऽत्रोपेक्षितम्।