पूर्वम्: ३।२।३२
अनन्तरम्: ३।२।३४
 
सूत्रम्
परिमाणे पचः॥ ३।२।३३
काशिका-वृत्तिः
परिमाणे पचः ३।२।३३

परिमाणं प्रस्थादि, तस्मिन् कर्मण्युपपदे पचेः खश् प्रत्ययो भवति। प्रस्थं पचति प्रस्थंपचा स्थाली। द्रोणंपचः। खारिंपचः कटाहः।
न्यासः
परिमाणे पचः। , ३।२।३३

"प्रस्थम्पचा,द्रोणम्पचा" इति। प्रस्थद्रोणपरिमिते व्रीह्रादौ प्रस्थद्रोणशब्दावुपचारेण वत्र्तेते; न प्रस्थादावेव परिमाणविशेषे काष्ठादिमये। क्लेदवाची ह्रत्र पचिः। न च मुख्यस्य प्रस्थादेर्विक्लेदः सम्भवति, अतो न तस्य सम्बन्ध उपपद्यते। स्वरूपग्रहणमप्यत एव न भवति; न हि स्वरूपप्रधानेन परिमाणेन विक्लेदवचनस्य पचेः सम्बन्धः सम्भवति। यद्यपि हि प्रस्थादिशब्दः परिमेये वत्र्तते, तथापि परिमाणव्यपदेशो न तस्य विरुध्यते, प्रथमं परिमाणवृत्तित्वात्॥
बाल-मनोरमा
परिमाणे पचः ७६१, ३।२।३३

परिमाणे पचः। परिमाणं प्रस्थादि। तस्मिन् कर्मण्युपपदे पचेः खशित्यर्थः। खारिम्पच इति। "खित्यनव्ययस्य" इति ह्यस्वः। मुम्।