पूर्वम्: ३।२।३५
अनन्तरम्: ३।२।३७
 
सूत्रम्
असूर्यललाटयोर्दृशितपोः॥ ३।२।३६
काशिका-वृत्तिः
असूर्यललाटयोर् दृशितपोः ३।२।३६

असूर्य ललाट इत्येतयोः कर्मणोरुपपदयोः दृशितपोः धात्वोः खश् प्रत्ययो भवति। असूर्यंपश्या राजदाराः। ललाटंतपः आदित्यः। असूर्य इति च असमर्थसमासो ऽयं, दृशिना नञः सम्बन्धात्, सूर्यं न पश्यन्ति इति। गुप्तिपरं चैतत्। एवं नाम गुप्ता यदपरिहार्यदर्शनं सूर्यम् अपि न पश्यन्ति इति।
न्यासः
असूर्यललाटयोर्दृशितपोः। , ३।२।३६

"असूर्यम्पश्याः" इति। प्राघ्रादिसूत्रेण ७।३।७८ पश्यादेशः। "दृशिना नञः सम्बन्धात्" इति। असामथ्र्य हेतुः। अत्र हि दर्शनं प्रतिषिध्यते,न तु सूर्य एव। तस्माद्()दृशिनैव नञः सम्बन्धः, न सूर्येणेत्यसामथ्र्यम्। "सूर्यं न पश्यन्ति" इति दृशिना नञः सम्बन्धं दर्शयति। यदा सूर्यः प्रतिषध्यते तदा न भवितव्यमेव प्रत्ययेन, अनभिधानात्। समासश्चायमसामर्थ्येऽपि भवति, गमकत्वात्। अस्मादेव वचनाद्वा। ननु च यथा राजदाराः सूर्यं न पश्यन्तीति तथान्यदपि परपुरुषादिकम्, तत्रायुक्तं सूर्येणैकेन विशेषणेनेत्यत आह-- "गुप्तिपरञ्चैतत्" इति। यतेतदसूर्यम्पश्या राजदारा इति वचनमेतद्()गुप्तिप्रधानम्; गुप्तिप्रतिपादनाय प्रयुक्तत्वात्। "एवं नाम" इत्यादिना गुप्तिपरत्वमस्य दर्शयति॥
बाल-मनोरमा
असूर्यललाटयोर्दृशितपोः ७६४, ३।२।३६

असूर्यललाट। दृशितपोरिति पञ्चम्यर्थे षष्ठी। असूर्ये ललाटे च कर्मण्युपपदे दृशेस्तपेश्च खशित्यर्थः। असूर्यमितीति। "असूर्यपश्या"इत्युदाहरणे असूर्यमित्यसमर्थसमासः सौत्र इत्यर्थः। कुतोऽसामथ्र्यमित्यत आह-- दृशिनेति। सूर्यं न पश्यन्तीत्यर्थे नञो दृशिनाऽन्वितत्वेन सूर्यशब्देनाऽन्वयाऽभावादित्यर्थः। ललाटन्तपःसूर्य इति। ललाटं तपतीति विग्रहः। सूर्य पश्यतो ललाटस्य अवश्यं तापादिति भावः।

तत्त्व-बोधिनी
असूर्यललाटयोर्दृशितपोः ६३६, ३।२।३६

असूर्यंपश्या इति। "पाघ्राध्मे"ति पश्यादेशः। गुप्तिपरं चेदम्। एवं नाम राजदारा गुप्ताः, यदपरिहार्यदर्शनं सूर्यमपि न पश्यन्ति, किं पुनः परपुरुषमिति। तेन सत्यपि सूर्यदर्शन प्रयोगो न विरुध्यते। यदा तु सूर्याऽभावदर्शनमात्रं, सूर्येतरचन्द्रादेर्दर्शनं वा विवक्षितं तदा खश् न भवत्यनभिधानादिति न्यासकारादयः।