पूर्वम्: ३।२।३८
अनन्तरम्: ३।२।४०
 
सूत्रम्
द्विषत्परयोस्तापेः॥ ३।२।३९
काशिका-वृत्तिः
द्विषत्परयोस् तापेः ३।२।३९

द्विषत्परयोः कर्मणोरुपपदयोः तापेः छातोः खच् प्रत्ययो भवति। तप दाहे चुरादिः, तपसन्तापे भ्वादिः, द्वयोरपि ग्रहणम्। द्विषन्तं तापयति द्विषन्तपः। परन्तपः। द्विषत्परयोः इति द्वितकारको निर्देशः। तेन स्त्रियां न भवति। द्विषतीं तापयति द्विषतीतापः।
न्यासः
द्विषत्परयोस्तापे। , ३।२।३९

"द्वयोरपि ग्रहणम्" इति। ण्यन्तावस्थायां विशेषाभावात्। "द्वितकारको निर्देशः"इति। "द्विषत्परयोः"इति निर्देशे द्वौ तकारौ,तत्रैको द्विषच्छब्दस्यावयवः, तेन द्विषच्छब्दो विशिष्यते-- द्विषच्छब्द उपपदे तकारान्त इति। "तेन स्त्रियां न भवति" इति। स्त्रीप्रत्ययान्तस्तकारान्तो न भवति। असति तु द्वितीये तकारे "प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवति" (व्या।प।२९) इति स्त्रयियामपि स्यात्। "{द्विषतीकाशिका} द्विषती" इति। "उगितश्च" ४।१।६ इति ङीप्। उगित्त्वन्तु द्विषच्छब्दस्य "द्विषोऽमित्रे" ३।२।१३१ इति शत्रन्तत्वात्॥
बाल-मनोरमा
द्विषत्परयोस्तापेः ७६८, ३।२।३९

द्विषन्तप इति। "अरुर्द्विष" दित तकारात्प्राक् मुम्। परन्तप इति। परः - शत्रुः। ननु लिङ्गविशिष्टपरिभाषया द्विषतीशब्देऽप्युपपदे तापेः खचि "द्विषतीतप" इति स्यात् "द्विषतीताप" इत्यण्णन्तं न स्यादित्यत आह-- घटघटीति। "शक्तिलाङ्गलाङ्कुशयष्टितोमरघटघटीधनुष्षु ग्रहेरुपसङ्ख्यान"मित्यत्र घटग्रहणेनैव लिङ्गविशिष्टपरिभाषया घटीशब्दस्यापि सिद्धे पुनर्घटीग्रहणाल्लिङ्गविसिष्टपरिभाषा अनित्येति विज्ञायते इत्यर्थः। "उपपदविधौ लिङ्गविशिष्टपरिभाषा ने"ति ङ्याप्पसूत्रे भाष्याच्चेत्यपि द्रष्टव्यम्।

तत्त्व-बोधिनी
द्विषत्परयोस्तापेः ६३८, ३।२।३९

द्विषन्तप इति। "अरुर्द्विषदि"ति मुमि कृते संयोगान्तलोपः।