पूर्वम्: ३।२।४०
अनन्तरम्: ३।२।४२
 
सूत्रम्
पूःसर्वयोर्दारिसहोः॥ ३।२।४१
काशिका-वृत्तिः
पूःसर्वयोर् दारिसहोः ३।२।४१

पुर् सर्व इत्येतयोः करमणोः उपपदयोः यथासङ्ख्यं दारिसहोः धात्वोः खच् प्रत्ययो भवति। पुरं दारयति पुरन्दरः। सर्वंसहो राजा। भवे च दारेरिति वक्तव्यम्। भगन्दरः।
न्यासः
पूःसर्वयोर्दारिसहोः। , ३।२।४१

"दारि" इति। "दृ? विदारणे" (धा।पा।१४९३) इत्यस्य णिचा निर्देशः। "पुरन्दरः" इति। पूर्वपदे मुम्भावो निपात्यते। "भगे च दारेरिति वक्तव्यम्" इति। भगे चोपपदे दारेः खज्भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्--"उग्रम्पश्येरम्मदपाणिन्धमाश्च" ३।२।३७ इत्यतश्चकारोऽनुवत्र्तते, न चानुक्तसमुच्चयार्थः, तेन भगे चोपपदे दारेः खज्भवतीति॥
बाल-मनोरमा
पूःसर्वयोर्दारिसहोः ७७१, ३।२।४१

पूः सर्वयोर्दारिसहोः। दारिसहोरिति पञ्चम्यर्थे षष्ठी। पुर्()शब्दे सर्वशब्दे च कर्मवाचिन्युपपदे दारेः सहेश्च खजित्यर्थः। यथासङ्ख्यमन्वयः। "दारी"ति ण्यन्तस्य ग्रहणम्। पुरन्दर इति। पुरं दारयतीति विग्रहे दारेः खचि णिलोपे "खचि ह्यस्वः" इत्युपधाह्यस्वे सुपी लुकि "वाचंयमपुरन्दरौ चे"ति खचो विकल्पविधौ खजभावे "कर्मण्य"णित्यस्य सिद्धत्वादण्ग्रहमं व्यर्थमित्यत आह-- असंज्ञार्थमिति। भगे चेति। इत्यादि स्पष्टम्। ऋतिह्कर इति। ऋतिर्गमनम्। अभयह्करशब्दं साधयितुमाह--भयशब्देन तदन्तविधिरिति। इदं च "येन विधि"रित्यत्र भाष्ये स्पष्टम्।

तत्त्व-बोधिनी
पूः सर्वयोर्दारिसहोः ६४१, ३।२।४१

पूः सर्वयोः। दृ? विदारणे अयमव गृह्रते, न तु दृ? भये दृङ् आदर इत्येताविति संप्रदायः। असंज्ञार्थमिति संज्ञायां तु "शंज्ञायां भृतृ()वृजि" इति वक्ष्यमाणेन सिध्यतीति भावः।