पूर्वम्: ३।२।४२
अनन्तरम्: ३।२।४४
 
सूत्रम्
मेघर्तिभयेषु कृञः॥ ३।२।४३
काशिका-वृत्तिः
मेघर्तिभयेषु कृञः ३।२।४३

मेघ ऋति भय इत्येतेषु कर्मसु उपपदेषु कऋञः खच् प्रत्ययो भवति। मेघङ्करः। ऋतिङ्करः। भयङ्करः। उपपदविधौ भयादिग्रहणं तदन्तविधिं प्रयोजयति। अभयङ्करः।
न्यासः
मेघर्त्तिभयेषु कृञः। , ३।२।४३

"उपपदविधौ" इत्यादि। ननु चाभयशब्दो नञ्समासे सिध्यत्येव? नैवं शक्यम्, सतिशिष्टत्वाद्धि "तत्पुरुषे तुल्यार्थ" ६।२।२ इति पूर्वपदप्रकृतिस्वराद्युदात्तत्वं स्यात्, "{गतिकारकोपपदात् कृत्" इति सूत्रम्} गतिकारकोपपदानाम्" ६।२।१३८ इत्यादिनान्तोदात्तत्वं चेष्यते। तस्मात् कत्र्तव्यम्। अपवादत्वात् खजयमणं बाधते, हेत्वादिविवक्षायाञ्च परत्वाट्टप्रत्ययमपि॥