पूर्वम्: ३।२।४६
अनन्तरम्: ३।२।४८
 
सूत्रम्
गमश्च॥ ३।२।४७
काशिका-वृत्तिः
गमश् च ३।२।४७

गमेः धातोः सुपि उपपदे संज्ञायां विषये खच् प्रत्ययो भवति। सुतङ्गमो नाम, यस्य पुत्रः सौतङ्गमिः। योगविभागः उत्तरार्थः।
न्यासः
गमश्च। , ३।२।४७

"यस्य सौतङ्गमिः पुत्रः" इति। पुत्रस्य सौतङ्गमित्वव्यपदेशेन पितुः सुतङ्गमसंज्ञानुमीयत इति दर्शयति। सत्यां हि पितुः सुतङ्गमसंज्ञायां तत्पुत्रस्य सौतङ्गमिशब्देनाभिधानं भवति, नासत्याम्। अथ योगविभागः किमर्थः, पूर्वसूत्र एव गमेग्र्रहणं क्रियातमित्याह-- "योगविभाग उत्तरार्थः" इति। गमेरेवोत्तरत्रानुवृत्तिर्यथा स्यात्, भृञादीनां मा भूत्। एकयोगे हि तेऽप्यनुवत्र्तेरन्॥
बाल-मनोरमा
गमश्च ७७५, ३।२।४७

गमश्च। "संज्ञायां ख"जिति शेषः।

तत्त्व-बोधिनी
गमश्च ६४४, ३।२।४७

गमश्च। पूर्वसूत्र एव गमिर्नोक्तः,उत्तरसूत्रे गमेरेवानुवृत्तिर्यथा स्यात्, भृतृ()प्रभृतीनां माभूदिति।