पूर्वम्: ३।२।४८
अनन्तरम्: ३।२।५०
 
सूत्रम्
आशिषि हनः॥ ३।२।४९
काशिका-वृत्तिः
आशिषि हनः ३।२।४९

ड इति वर्तते। आशिषि गम्यमानायां हन्तेर् धातोः कर्मण्युपपदे डप्रययो भवति। तिमिं वध्यात् तिमिहः। शत्रुहः। आशिषि इति किम्? शत्रुघातः। दारावाहनो ऽणन्तस्य च टः संज्ञायाम्। दारावुपपदे आङ्पूर्वाद् हन्तेः अण् प्रत्ययो भवति, अन्तस्य च ट कारादेशो भवति, संज्ञायां विषये। दारु आहन्ति दार्वाघाटः। चारौ वा। आङ्पूर्वात् हन्तेश्चारावुपपदे अण्, अन्तस्य वा टकारादेशः। चार्वाघाटः, चार्वाद्घातः। कर्मणि समि च। कर्मण्युपपदे सम्पूर्वात् हन्तेः धातोः अण् प्रत्ययो भवति, अन्तस्य च वा टकारदेशः। वर्णान् संहन्ति वर्णसङ्घाटः, वर्णसङ्घातः। पदानि संहन्ति पदसङ्घाटः, पदसङ्घातः।
न्यासः
आशिषि हनः। , ३।२।४९

"आशिषि" इति। प्रत्ययार्थमेतत्। तस्मिन् कत्र्तरि प्रत्ययो भवति यस्मिन् विधीयमान आशीर्गम्यते। "तिमिं वध्यात्" इति। आशीर्लिङ। प्रयोगवतो वाक्यस्योपन्यासस्तु समानार्थत्वात् तिमिहशब्दस्य प्रख्यानार्थः। "दारावाहन" इत्यादि। टकारादेश एवोपसंख्यायते। अण्प्रत्ययस्तु "कर्मण्यण्" ३।२।१ इत्यनेनैव सिद्धः। अथान्तग्रहणं किमर्थम्, यावता "अलोऽन्त्यस्य" (१।१।५२) इत्यन्तस्य भविष्यतीति? नच षष्ठीनिर्दिष्टस्यालोन्त्यविषयो भवन्ति। न चेह हन्तेः षष्ठ()आ निर्देशः, किं तर्हि? पञ्चम्या। नन्वर्थाद्विभक्तिविपरिणामो भविष्यति-- हन इत्यस्याः षष्ठी सम्पद्यते? एवं तर्हि विस्पष्टार्थमन्तग्रहणम्। "दार्वाहन्ति" इति।दारुशब्दोऽत्र द्वितीयान्तः। "स्वमोर्न्पुंसकात्" ७।१।२३ इति लुप्तत्वान्न द्वितीया श्रूयते। "चारौ वा" इति।अत्राऽप्यादेशो विकल्पेन विधीयते। अण् तु "कर्मण्यण्" ३।२।१ इति नित्यमेव सिद्धः। "चार्वाघाटः"इति। "हो हन्तेर्ञ्णिन्नेषु" इति कुत्वम्। "हनस्तोऽचिण्णलोः"७।३।३२ इति तत्वम्। "कर्मणि समि चि" इत्येतद्वाक्यं कर्मण्युपपद इत्यस्यैव विशेषणम्॥
बाल-मनोरमा
आशिषि हनः ७७७, ३।२।४९

आशिषि हनः। कर्मण्युपपदे हन्तेर्डः स्यादाशिषि गम्यायामित्यर्थः। शत्रुघात इति। आसीरभावाड्डाऽभावे अण्। "हनस्त" इति तत्वम्। दारावाहन इति। वार्तिकमिदम्। दारौ, आहनः, अण्(), अन्तस्येति च्छेदः। अण्संनियोगेन टत्वविधानार्थमिदम्। चारौ वेति। वार्तिकमिदम्। चारुशब्दे उपपदे आङ्पूर्वाद्धन्तेरण्, अन्तस्य टो वा स्यादित्यर्थः। कर्मणणि समि चेति। वार्तिकमिदम्। उक्तं वेति। अण्, अन्तस्य ट इत्यर्थः। चारावित्यस्यानुवृत्तिनिवृत्तये कर्मणीत्युक्तिः।