सूत्रम्
अपे क्लेशतमसोः॥ ३।२।५०
काशिका-वृत्तिः
अपे क्लेशतमसोः ३।२।५०
अपपूर्वात् हन्तेः धातोः क्लेशतमसोः कर्मणोरुपपदयोः डप्रत्ययो भवति। क्लेशापहः पुत्रः। तमोपहः सूर्यः। अनाशीरर्थ आरम्भः।
न्यासः
अपे क्लेशतमसोः। , ३।२।५०
"उदि कूले रुजिवहोः"
३।२।३१ इत्यत्रोच्छब्दस्योपपदत्वे यो न्याय उक्तः स इहाप्यपशब्दस्य वेदितव्यः। "अनीशीरर्थ आरम्भः"इति। आशिषि पूर्वेणैव सिद्धत्वात्॥
बाल-मनोरमा
अपे क्लेश्तमसोः ७७८, ३।२।५०
अपे क्लेशतमसोः। "आशिषि हनः" इत्येव सिद्धे किमर्तमिदमित्यत आह-- अनाशीरर्थमिति।