पूर्वम्: ३।२।५०
अनन्तरम्: ३।२।५२
 
सूत्रम्
कुमारशीर्षयोर्णिनिः॥ ३।२।५१
काशिका-वृत्तिः
कुमारशीर्षयोर् णिनिः ३।२।५१

हन इति वर्तते। कुमार शीर्ष इत्येतयोः उपपदयोः हन्तेः णिनिः प्रत्ययो भवति। कुमारघाती। शीर्षघाती। निपातनाच् छिरसः शीर्षभावः।
न्यासः
कुमारशीर्षयोर्णिनिः। , ३।२।५१

"कुमारघाती" इति। पूर्ववत् तत्वकुत्वे। "निपातनाच्छिरसः शीर्षभावः" इति। कुमारशीर्षयोरित्यत एव निपातनाच्छिरसः शीर्षभावो भवति, न पुनः "शीर्षश्छन्दसि"६।१।५९ इत्यनेन। तत्र हि शीर्षन्निति शिरःशब्दसमानार्थं शब्दान्तरं निपात्यते,अन्यथा शीर्षघातीति च्छन्दस्येव स्यात्,न भाषायाम्। "कुमारशीर्षयोः" इति च निर्देशो नोपपद्यते, स हि नकारान्तः; अकारान्तेन चायं निर्देशो भवति, न नकारान्तेनेति। णिनेर्द्वितीय इकारो नकारस्येत्संज्ञापरित्राणार्थः, णकारो वृद्ध्यर्थः॥
बाल-मनोरमा
कुमारशीर्षयोर्णिनिः ७७९, ३।२।५१

कुमारशीर्षयोर्णिनिः। अनयोरुपपदयोर्हन्तेर्णिनिः स्यादित्यर्थः। नकारादिकार उच्चारणार्थः।

तत्त्व-बोधिनी
ऋत्विग्दधृक्रुआग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च ३३४, ३।२।५१

ऋत्विग्दधृत्। किञ्चिदिति। ऋतावुपपदे यजेः क्विन्। धृष्णोतेर्द्वित्वमन्तोदात्तत्वं च। सृजेः कर्मणि क्विन्, अमागमश्च। दिशेः कर्मणि क्विन्। उत्पीर्वात्स्निहेः क्विन्, उपसर्गान्तलोपः, षत्वं च। अञ्चेः सुप्युपपदे क्विनत्यर्थः। निरुपपदाद्युजेरिति। क्रुञ्चेरप्येवम्। नलोपाऽभावस्त्वधिकः। कनाविताविति। इकारस्तूच्चारणार्थ इति भावः।

तत्त्व-बोधिनी
कुमारशीर्षयोर्णिनिः ६४६, ३।२।५१

कुमारशीर्षयोर्णिनि)। एतयोः कर्मणोरुपपदयोर्हन्तेर्णिनिः स्यात्। "सुप्यजातौ" इत्यादिभिः सिद्धे ताच्छील्यावश्यकाऽधमण्र्यविरहेऽपि णिन्यर्थं, शिरसः शीर्षभावार्थं च वचनम्।