पूर्वम्: ३।२।५२
अनन्तरम्: ३।२।५४
 
सूत्रम्
अमनुष्यकर्तृके च॥ ३।२।५३
काशिका-वृत्तिः
अमनुष्यकर्तृके च ३।२।५३

अमनुष्यकर्तृके वर्तमानाद् हन्तेः धातोः कर्मणि उपपदे टक् प्रत्ययो भवति। जायाघ्नस्तिलकालकः। पतिघ्नी पाणिरेखा। श्लेष्मघ्नं मधु। पित्तघ्नं घृतम्। अमनुष्यकर्तृके इति किम्? आखुघातः शूद्रः। इह कर्मान् न भवति, चौरघातो हस्ती? कृत्यल्युटो बहुलम् ३।३।११३ इति बहुलवचनादण् भवति।
न्यासः
अमनुष्यकर्त्तृके च। , ३।२।५३

"अमनुष्यकर्त्तृके" इति। अमनुष्यः कत्र्ता यस्य स तथोक्तः एतच्च धात्वर्थविशेषणम्, धात्वर्थो हन्तेरित्यत आह-- "{ एवंप्रकारा पंक्तिर्मूलपाठे नास्ति} अमनुष्यकर्त्तृके धात्वर्थे" इत्यादि। अथामनुष्यकर्त्तृकग्रहणमुपपदविशेषणं कस्मान्न भवति? कर्मणीत्यनुवत्र्तते, कर्मणश्चामनुष्यकत्र्रा सह सम्बन्धानुपपत्तेः। साधनस्य हि क्रियायाः सम्बन्धः, न कारकान्तरेण। प्रत्ययार्थस्य कर्त्तृरिदं विशेषणं कस्मान्न विज्ञायते? तस्यामनुष्यकर्त्तृकत्वाभावात्। न हि कर्त्तुः कत्र्ता सम्भवति, अपि तु क्रियायाः। ननु च कर्त्तृग्रहणं न कत्र्तव्यम्, विनापि हि तेनामनुष्यकत्र्तरि प्रत्ययो लभ्यत एव? नैवं शक्यम्; कर्त्तृग्रहणमन्तरेणामनुष्यग्रहणं केवलमुपादीयमानमुपपदविशेषणमपि विज्ञायते। तस्मात् कर्त्तृग्रहणं कत्र्तव्यम्। तस्मिन् सत्यमनुष्यकर्त्तृग्रहणं तस्य विशेषणं न सम्भवतीत्यतो धात्वर्थ एव तेन विशेषयितुं युक्तः। "इह कस्मान्न भवति" इति। हस्तिकर्त्तृकत्वादमनुष्यकर्त्तृको धात्वर्थः। एतस्माद्भवतिव्यमेव टक्प्रत्ययेनेति मन्यते॥
बाल-मनोरमा
अमनुष्यकर्तृके च ७८१, ३।२।५३

अमनुष्य। अमनुष्यकर्तृके धात्वर्थे वर्तमानाद्धन्तेः कर्मण्युपपदे टगित्यर्थः। जायाघ्नस्तिलकालक इति। तिलाकृतकृष्णबिन्दुरित्यर्थः। पूर्वसूत्रस्य लक्षणवति कर्तरि प्रवृत्तिरिति भावः। अथ कथमिति। प्रलम्बघ्नादौ हन्तेर्मनुष्यकर्तृकतया टकोऽसंभवादित्याक्षेपः। समाधत्ते-- मूलविभुजादित्वात्सिद्धमिति। कप्रत्ययेनेति भावः। ननु "चोरघातो हस्ती"त्यादि कथम्, अमनुष्यकर्तृकत्वेन हन्तेष्टको दुर्वारत्वादित्यत आह-- चोरघात इत्यादीति। बाहुलकादणीति। "कृत्यल्युटो बहुल"मिति बहुलग्रहणादणि समाधेयमिति भावः।

तत्त्व-बोधिनी
अमनुष्यकर्तृके च ६४८, ३।२।५३

अमनुष्यकर्तृके च। मनुष्यभिन्नकर्तृकेऽर्थे वर्तमानाद्धन्तेः कर्मणयुपपदे टक् स्यात्। यद्यप्यमनुष्यशब्दो रूढ()आ रक्षः पिशाचादीनाहेति प्रागुक्तं,तथापीह लक्ष्यानुरोधेन व्याख्यातव्यमित्याशयेनाह--- तिलकालक इत्यादि। "तिलकालक इत्यादि। "नानुबन्धकृतमसारूप्य"मिति टगणोः सारूप्याद्वासरूपविध्यप्रवृत्तेराह-- बाहुलकादिति।