पूर्वम्: ३।२।५४
अनन्तरम्: ३।२।५६
 
सूत्रम्
पाणिघताडघौ शिल्पिनि॥ ३।२।५५
काशिका-वृत्तिः
पाणिघताडघौ शिल्पिनि ३।२।५५

पाणिघ ताडघ इत्येतौ शब्दौ निपात्येते शिल्पिनि कर्तरि। पाणि ताड इत्येतयोः कर्मणोः उपपदयोः हन्तेः धतोः टक् प्रत्ययो भवति,तस्मिंश्च परतो हन्तेः टिलोपो घत्वं च निपात्यते। पाणिघः। ताडघः। शिल्पिनि इति किम्? पाणिघातः। ताडघातः। राजघ उपसङ्ख्यानम्। राजानं हन्ति राजघः।
न्यासः
पाणिघताडघौ शिल्पिनि। , ३।२।५५

"पाणिघताडघौ" इति। टप्रत्ययो घत्वं टिलोपश्च निपात्यते॥
बाल-मनोरमा
पाणिघताडघौ शिल्पिनि ७८३, ३।२।५५

पाणिघताडघौ। पाणिना हन्तीति पाणिघः। ताडः = ताडनं, तेन हन्तीति ताडघः = मल्लादिः। राजघ उपसङ्ख्यानमिति। राजघशब्दे उक्तनिपातनस्य उपसङ्ख्यानमित्यर्थः।