पूर्वम्: ३।२।५६
अनन्तरम्: ३।२।५८
 
सूत्रम्
कर्तरि भुवः खिष्णुच्खुकञौ॥ ३।२।५७
काशिका-वृत्तिः
कर्तरि भुवः खिष्णुच्खुकञौ ३।२।५७

आढ्यादिसु सुबन्तेषु उपपदेषु च्व्यर्थेषु अच्व्यन्तेषु भवतेर् धातोः कर्तरि कारके खिष्णुच्, खुकञित्येतौ प्रत्ययौ भवतः। अनाढ्य आढ्यो भवति आढ्यंभविष्णुः, आढ्यंभावुकः। सुभवंभविष्णु, सुभगंभावुकः। स्थूलंभविष्णुः, स्थूलंभावुकः। पलितंभविष्णुः, पलितंभावुकः। नग्नंभविष्णुः, नग्नंभावुकः। अन्धंभविष्णुः, अन्धंभावुकः। प्रियंभविष्णुः, प्रियंभावुकः। कर्तरि इति किम्? करणे मा भूत्। च्व्यर्थेसु इत्येव, आढ्यो भविता। अच्वौ इत्येव, आढ्यीभविता। उदात्तत्वाद् भुवः सिद्धम् इकारादित्वम् इष्णुचः। नञ्स्तु स्वरसिद्ध्यर्थम् इकारादित्वम् इष्यते।
लघु-सिद्धान्त-कौमुदी
इरितो वा ६३१, ३।२।५७

इरितो धातोश्च्लेरङ् वा परस्मै पदेषु। अनिजत्, अनैक्षीत्, अनिक्त। अनेक्ष्यत्, अनेक्ष्यत॥
लघु-सिद्धान्त-कौमुदी
इति जुहोत्यादयः ३ ६३१, ३।२।५७

लघु-सिद्धान्त-कौमुदी
अथ दिवादयः ६३१, ३।२।५७

लघु-सिद्धान्त-कौमुदी
दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु १ ६३१, ३।२।५७

न्यासः
कत्र्तरि भुवः खिष्णुच्खुकञौ। , ३।२।५७

"कत्र्तरि कारके" इति। कर्त्तृग्रहणं करणनिवृत्त्यर्थम्। ननु चास्वसितत्वादेवानुवृत्तिर्न स्यात्? सत्यमेतत्; द्वेष्यमपि कश्चिदविजानीयात्-- यथैवाढ()आदयोऽनुवत्र्तन्ते तथा तत्सम्बन्धकरणमपीति। उत्तरार्थञ्च कर्त्तृग्रहणम्। "उदात्तत्वात्" इत्यादि। उदात्तादितरोऽनुदात्तः, तेन भवतेर्विहितस्याद्र्धधातुकस्य "एकाच उपदेशेऽनुदात्तात्" ७।२।१० इतीट्()प्रतिषेधो न भवति। बलादिलक्षणेटा ७।२।३५ भवितव्यम्, ततश्च तेनैवेकारादित्वं सिद्धम्,ततो न कत्र्तव्यं खिष्णुच इकारादित्वमिति भावः। इकारादित्वकरणस्य प्रयोजनमाह-- "नञस्तु" इत्यादि। यदि। खिष्णु च इकारादित्वं न क्रियते ततो यद्यपीटि कृते सतीकारदित्वं तस्य भवति, तथापि तस्य लाक्षणिकत्वात् "कृत्योकेष्णुच्चार्वादयश्च" ६।२।६० इत्यत्रेष्णुज्ग्रहणेन न ग्रहणं स्यात्। ततश्चानाढ()म्भविष्णुरिति नञ उत्तरस्योत्तरपदस्यान्तोदात्तत्वं न स्यात्िष्यते च। अतो नञ उत्तरस्योत्तरपदान्तोदात्तत्वंम्, तेनेकारादित्वमिष्णुचः क्रियते। ननु च सत्यपीकारादित्वे अलंकृञादिसूत्रे ३।२।१३६ विहितस्यैवेष्णुचो ग्रहणेन भवितव्यम्(), नेतरस्य , तस्यैकानुबन्धकत्वात्, अस्य द्वयनुबन्धकत्वात्? इकारोच्चारणसामथ्र्यादस्यापि ग्रहणं भविष्यतीत्यदोषः। खकारो मुमर्थः; चकारः स्वरार्थः, ञकारो वृद्ध्यर्थः॥
बाल-मनोरमा
कर्तरि भुवः खिष्णुच्खुकञौ ७८५, ३।२।५७

कर्तरि भुवः। खिष्णुचि खचावितौ। खुकञि खञावितौ। आढ()म्भविष्णुरिति। अनाढ() आढ()ओ भवतीति विग्रहः। आढ()म्भावुक इति। ञित्त्वाद्वृद्धिः। करणग्रहणाऽनुवृत्तिनिवृत्तये कर्तृग्रहणमम्। खिष्णुचि इकारस्तु व्यर्थ एव, इटा सिद्धेः। अच्वौ किम्?। आढ्यीभविता। स्पृशोऽनुदके क्विन्निति-- व्याक्यातं हलन्ताधिकारे। निवृत्तिमिति। अत्र व्याख्यानमेव शरणम्। समानान्ययोश्चेति। अनयोरुपपदयोर्दृशः क्विन्कञावित्यर्थः। सदृक् सदृश इति। समानो दृश्यते इति न विग्रहः, कर्तर्येव क्विन्विधानात्। किन्तु कर्मकर्तरि क्विन्()कञौ॥ समानः पश्यतीति विग्रहः। समानत्वेन ज्ञानविषयो भवतीत्यर्थ इति भाष्ये स्पष्टम्। "दृग्दृशवतुषु" इति समानस्य सभावविकल्पऋ। तत्र "विभाषोदरे" इत्यतो विभाषानुवृत्तेः, "समानदृक् सदृक्। समानसदृशः सदृश" इति भाषाच्च। अन्यादृगिति। "आ सर्वनाम्नः" इत्यात्वम्। क्सोऽपीति। त्यदादिषु समानान्ययोश्च दृशेः क्सोऽपि वाच्य इत्यर्थः।

तत्त्व-बोधिनी
कर्तरि भुवः खिष्णुच्खुकञौ ६५१, ३।२।५७

कर्तरि भुवः। अच्व्यन्तेष्विति। अच्व्य्नतेष्विति। अच्वावित्यनुवर्तते। अन्यथा आढ्यीभविष्णुः आढ्यीभावुक इति स्यादिति भावः। "कर्तृग्रहणं करणाऽनुवृत्तिभ्रमनिरासार्थमुत्तरार्थ चे"ति प्राञ्चः। वस्तुतस्तु व्यर्थमेव, अस्वरितत्वादेवाऽननुवृत्तिसिद्धेः, उत्तरत्राप्युपयोगो नेति स्पष्टीकरिष्यमाणत्वाच्च। खकारो मुमर्थः। चकारः "चितः" अस्वरितत्वादेवाऽननुवृत्तिसिद्धेः, इकारादित्वसिद्धये इडागमे कृतेऽपि "आगमा अनुदात्ताः" इति तस्याऽनुदात्तत्वात्। न च "कृत्योकेष्णुच्चार्वादयश्चे" ति स्वरसूत्रे अस्य ग्रहणं न स्यात्, चकारानुबन्धाऽभावादिकारस्य लाक्षणिकत्वात्षत्वणत्वयोरसिद्धत्वेनेष्णु इतिरूपाऽभावाच्चेति वाच्यम्, कृतेऽपि इकारे "तदनुबन्धकग्रहणे नाऽतदनुबन्धकस्ये"ति परिभाषया अलङ्कृञादीष्णुच एव ग्रहणं स्यान्न त्वेतस्य। इकारोच्चारणसामथ्र्यादस्याऽपि ग्रहणमिति चेद्धन्तैवं खष्णुजयमस्तु, तत्रेटि कृते चकारानुबन्धसामथ्र्यादस्यापि ग्रहणमस्त्विति किमिकारेणेति चिन्त्यमेतत्। न चेह लाघवाऽभावादिकारोऽस्तु, चकार एव मास्त्विति शङ्क्यम्, "एकमात्रो ह्यस्वो व्यञ्जनं त्वद्र्धमात्रक"मिति सर्वसंमतत्वात्। यत्तु हरदत्तेनोक्तं--षत्वणत्वयोः सामथ्र्यादस्य ग्रहणमिति , तदापाततः, रुआउजपेक्षया ष्णुजुक्तौ प्रत्युत प्रक्रियालाघवेन षत्वणत्वयोः करणस्योचिततया सामथ्र्याऽयोगादिति दिक्। निवृत्तमिति। ननु स्पृशेः सकर्मकत्वात्कर्मण्युपद इत्येव प्राप्येतेति चेत्। अत्र प्राञ्चः-- पूर्वसूत्रात्कर्तर इत्यनुवर्तते, सा चानुवृत्तिः "कर्तरि कृ"दित्यनेनैव कर्तरि क्विनः सिद्धत्वाद्व्यर्था सती कर्तृप्रचयार्था, कर्मण्युपपदे एकः कर्ता, करणादौ चाऽपर इत्येवं कर्तृप्रचयः, तथा च "सुबन्ते उपपदे" इति फलितं भवतीति मन्त्रस्पृगित्यादेः क्विपाऽपि सिद्धेः। न च क्विपि कुत्वं न स्यादिति वाच्यं, "क्विन्प्रत्ययो यस्मा"दिति बहुव्रीहिबलादेवकुत्वसंभवादिति दिक्। सदृगिति। तमिवेमं पश्यन्ति जनाः, स इवायं पश्यति = ज्ञानविषयो भवतीति व्युत्पत्त्या कर्मकर्तर प्रत्ययः, रूढ()र्थानुगुणत्वात्।