पूर्वम्: ३।२।६०
अनन्तरम्: ३।२।६२
 
सूत्रम्
सत्सूद्विषद्रुहदुहयुजविदभिदच्छिद-जिनीराजामुपसर्गेऽपि क्विप्॥ ३।२।६१
काशिका-वृत्तिः
सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजाम् उअसर्गे ऽपि क्विप् ३।२।६१

सुपि इत्यनुवर्तते। कर्मग्रहणं तु स्पृशो ऽनुदके क्विन् ३।२।५८ इत्यतः प्रभृति न व्याप्रियते। सदादिभ्यः धातुभ्यः सुबन्ते उपपदे उपसर्गे ऽपि अनुपसर्गे ऽपि क्विप् प्रत्ययो भवति। उपसर्गग्रहणम् ज्ञापनार्थम्, अन्यत्र सुब्ग्रहणे उपसर्गग्रहणं न भवति इति, वदः सुपि क्यप् च ३।१।१०६ इति। सू इति द्विषा साहचर्यात् सूतेः आदादिकस्य ग्रहणं, न सुवतेः तौदादिकस्य। युजिर् योगे, युज समाधौ, द्वयोरपि ग्रहणम्। विद ज्ञाने, विद सत्तायाम्, विद विचारणे, त्रयाणाम् अपि ग्रहणम्। न लाभार्थस्य विदेः, अकारस्य विवक्षतत्वात्। सद् शुचिषत्। अन्तरिक्षसत्। उपसत्। सू अण्डसूः। शतसूः। प्रसूः। द्विष मित्रद्विट्। प्रद्विट्। द्रुह मित्रध्रुक्। प्रध्रुक्। दुह गोधुक्। प्रधुक्। युज अश्वयुक्। प्रयुक्। विद वेदवित्। प्रवित्। ब्रह्मवित्। भिद काष्ठभित्। प्रभित्। छिद रज्जुच्छिद्। प्रच्छिद्। जि शत्रुजित्। प्रजित्। नी सेनानीः। प्रणीः। ग्रामणीः। अग्रणीः। कथम् अत्र णत्वम्? स एषां ग्रामणीः ५।२।७७ इति निपातनात्, नयतेः पूर्वपदात् सज्ञायाम् अगः ८।४।३ इति णत्वम्। राज राट्। विराट्। सम्राट्। मो राजि समः क्वौ ८।२।३५ इति मत्वम्। अन्येभ्यो ऽपि दृश्यते ३।२।१७८, क्विप् च ३।२।७६ इति सामान्येन वक्ष्यति, तस्य एव अयं प्रपञ्चः।
न्यासः
सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्। , ३।२।६१

"कर्मग्रहणं तु "स्पृशोऽनुदके क्विन्" इत्यतः प्रभृति न व्याप्रतियते" इति। ननु सकर्मका अपि धातवः सन्ति, तत्कथं न व्याप्रियत इति? एवं मन्यते-- स्पृशोऽनुदके क्विन्" ३।२।५८ इत्यादिषु यत् "कत्र्तरि" ३।२।५७ इत्यनुवत्र्तते तत् कर्त्तृप्रचयार्थं विज्ञायते, तेन सुपीति व्याप्रियते, न कर्मणीति। एवं हि कर्त्तृप्रचयो लभ्यते, नान्यथा। अथ उपसर्गग्रहणं किमर्थम? यावतोपसर्गाः सुबन्ता एव, तत्र सुब्ग्रहणेनैवोपसर्गग्रहणं सिद्धमित्याह-- "उपसर्गग्रहमं ज्ञापनार्थम्िति। "अन्यत्र सुब्ग्रहण उपसर्गग्रहणं न भवति" इति। क्वान्यत्र सुब्राग्रहण उपसर्गग्रहणं न भवतीत्याह-- "वदः सुपि क्यप् च" इति। ननु च "वदः सुपि क्यप् च" ३।१।१०६ इत्यत्र "गदमदचरयमश्चानुपसर्गे" ३।१।१०० इत्यतोऽनुपसर्गग्रहणमनुवत्र्तते। एवञ्चोपसर्गग्रहणं नानुवत्र्तयितव्यमिति वा ज्ञापनार्थमुपसर्गग्रहणम्। विकल्पप्रदर्शनार्थं कत्र्तव्यमित्यन्ये। "अपूरे त्वाहुः-- ज्ञापकप्रयोजनदिगियमिति वृत्तिकारो दर्शयति। इदं तु स्पष्टं ज्ञापकस्य प्रयोजनम्-- "स्पृशोऽनुदके क्विन्" ३।२।५८ इत्यत्र "सुपि" ३।२।४ इत्यधिकारादसति ज्ञापक उपसर्गग्रहणे सुबन्तेऽप्युपसर्गे स्यात्-- उपस्पृशति, संस्पृशतीति; अस्मात् ज्ञापकान्न भवति। "साहचर्यात्ित्यादि। यदि "सू"इत्ययं धातुरादादिकत्वं व्यभिचरति "द्विष अप्रीतौ"(धा।पा।१०१३) इत्येष तु न व्यभिचरति, अतोऽनेन साहचर्यात् "सू" इत्यादादिकस्य "षूङ प्राणिगर्भविमोचने" (धा।पा।३०३१) इत्यस्य ग्रहणम्, न "षू प्रेरणे" (धा।पा।१४०८) इत्यस्य तौदादिकस्य। ननु च सदिना तौदादिकसाहचर्यादस्यापि ग्रहणं भवति? नैतदस्ति; यथैव हि "सू" इत्येष तौदादिकतवं व्यभिचरति,तथा सदिरपि, तस्य भ्वादिषु पाठात्, तत्कथं तेन साहचर्यात् तौदादिकस्येह ग्रहणं स्यात्। "न सुबतेः" इति। अनादादिकसूरूपस्य धातोरुपलक्षममेतत्। "{षूङ्-धा।पा।}षञ् प्राणिप्रसवे" (धा।पा।११३२) इत्येतस्यापि दैवादिकस्य ग्रहमं न युक्तम् ; न्यायस्य च तुल्यत्वात्। "द्वयोरपि ग्रहणम्" इति। विशेषानुपादानात्। "न लाभार्थस्य" इति। "विद्()लृ लाभे" (धा।पा।१४३२) इत्येतस्य। "अकारस्य विवक्षितत्वात्" इति। इह लाभार्थस्यानुपादाने हेतुः "विदः" इति सूत्रेऽ कारान्तोच्चारणं विवक्षितमिति,तेन विदेरकारान्तस्य गणे पाठात् स एव गृह्रते, न लृकारान्तः। "शृचिषत्" इति। "{षद्()लृ-धा।पा।} सद्()लृ विशरणार्थः (धा।पा।८५४)। "मित्रध्रुक्िति। "द्रुह जिघांसायाम्" (धा।पा।११९७) "वा द्रुहमुह" ८।२।३३ इति ककारः, "एकाचो बशो भष्" ८।२।३७ इत्यादिना भष्भावः। "गोधुक्" इति। " दुह प्रपूरणे" (धा।पा।१०१४) "दादेर्धातोर्घः"८।२।३२ इति घत्वम्। "अ()आयुक्" इति। "चोः कुः" ८।२।३० इति कुत्वं गकारः, तस्य पूर्ववत् ककारः। "शत्रुजित्" इति। "ह्यस्वस्य पिति कृति तुक्" ६।१।६९। "कथमत्र णत्वम्" इति। "पूर्वपदात् संज्ञायामगः" ८।४।३ इति संज्ञायां विधीयमानेन णत्वेनासंज्ञायामिह न भवितव्यमिति भावः। "सम्राटः"इति। "राजृ दीप्तौ" (धा।पा।८२२), "व्रश्चभ्रस्ज" ८।२।३६ इति चर्त्वं टकारः, "मो राजिसमः क्वौ" ८।३।२५ इति मकारः। क्विपः ककारो गुणवृद्धिनिषेधार्थः। पकारस्तुगर्थः। "वेरपृक्तस्य" ६।१।६५ इति वकारलोपः। इकारः "वेरपृक्तस्य" इति सामान्यग्रहणार्थः॥
बाल-मनोरमा
सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप् ७८६, ३।२।६१

सत्सूद्विष। सद्, सू, द्विष,द्रुह, दुह, युज, विद, भिद, छिद, जि , नी, राज् एषां द्वन्द्वात्पञ्चम्यर्थे षष्ठी। "अनुपसर्गे" इत्यस्य निवृत्त्यैव सिद्धे "उपसर्गेऽपी"ति वचनमन्यत्र सुब्ग्रहणे उपसर्गग्रहणं नेति ज्ञापनार्थम्। तेन "वदः सुपि क्यप् चे" ति विधिरुपसर्गे न भवतीति भाष्ये स्पष्टम्। द्युसदिति। दिवि सीदतीति विग्रहः। "सात्पदाद्यो"रिति न षत्वम्। "पूर्वपदा"दिति षत्वं तु न भवति, तस्य च्छान्दसत्वात्।"आदितेया दिविषदः" इत्यत्र सुषामादित्वात्वमित्याहुः। उपनिषदिति। "सदिरप्रते"रिति षत्वम्। इत्यादीति। काष्ठभित्, रज्जुच्छित्। शत्रुजित्। अत्र "ह्यस्वस्य पिती"ति तुक्। सेनानीः। विराट्। अंशभागीति। णित्त्वादुपधावृद्धिः।

तत्त्व-बोधिनी
सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप् ६५२, ३।२।६१

सत्सूद्विष। षद्लृ विशरणादौ। "सू" इति द्विषा साहचर्यात्सूतेरादादिकस्य ग्रहणं न तु सुवतिसूयत्योः। युजिर् योगे, युज समाधौ, द्वयोरपि ग्रहणम्। विद ज्ञाने, विद विचारणे, विद सत्तायां, --त्रयाणामपि ग्रहणम्। विद्लृ लाभे इत्यस्य तु न ग्रहणम्, विदेत्यकारस्य विवक्षितत्वात्। द्युसदिति "पूर्वपदा"दिति षत्वं तु न भवति, छन्दसीत्यनुवृत्तेः। तथा च माघः--"मनस्सु येन द्युसदां न्यधीयते" ति। "आदितेया द्विषदः" इत्यत्र तु सुषामादित्वात्षत्वमिति माधवादयः। उपनिषदित्यत्र तु "सदिरप्रते" रिति षः। अग्रग्रामाभ्यामिति। "स एषां ग्रामणी"रिति निर्देशेन ज्ञापितपपदादपि णत्वं, तेनाऽग्रणीरित्यपि सिद्धमित्याहुः।