पूर्वम्: ३।२।६१
अनन्तरम्: ३।२।६३
 
सूत्रम्
भजो ण्विः॥ ३।२।६२
काशिका-वृत्तिः
भजो ण्विः ३।२।६२

उपसर्गे सुपि इति वर्तते। भजेर् धातोः सुबन्त उपपदे उपसर्गे ऽपि प्रभाक्।
न्यासः
भजो ण्विः। , ३।२।६२

"अर्धभाक्" इति। "वेरपृक्तस्य" ६।१।६५ इति वकारलोपः। प्रत्ययलोपलक्षणेन "अत उपधायाः" ७।२।११६ इति वृद्धिः, "चोः कुः" ८।२।३० इति कुत्वम्। णकारो वृद्ध्यर्थः। इकारः "वेरपृक्तस्य" ६।१।६५ इति सामान्यग्रहणार्थः॥