पूर्वम्: ३।२।६५
अनन्तरम्: ३।२।६७
 
सूत्रम्
हव्येऽनन्तः पादम्॥ ३।२।६६
काशिका-वृत्तिः
हव्ये ऽनन्तःपादाम् ३।२।६६

हव्यशब्दे उपपदे छन्दसि विषये वहेर् धातोः ञ्युट् प्रत्ययो भवति, अनन्तःपादं चेद् वहिर्वर्तते। अग्निश्च हव्यवाहनः अनन्तःपादम् इति किम्? हव्यवाडग्निरजरः पिता नः।
न्यासः
हव्येऽनन्तःपादम्। , ३।२।६६

"अनन्तःपादम्" इति। अन्तः शब्दो मध्यशब्देन समानार्थः। अन्तःपादमिति पादस्य मध्य इत्यर्थ-। "अव्ययं विभक्ति" २।१।६ इत्यादिना विभक्त्यर्थेऽव्ययीभावः-- न अन्तःपादमनन्तःपादमिति। एतच्च वहेः प्रकृतत्वात् तस्यैव विशेषमं विज्ञायत इत्यत आह-- "अनन्तःपादञ्चेद्वहिर्वत्र्तते"इति। छन्दसीत्यनुवृत्तेः पादशब्द ऋक्पादं बोधयति। ऋक्पादमध्ये वहिर्न वत्र्तत इत्यर्थः। प्रत्युदाहरणे पादमध्ये वहिर्वत्र्तत इति तेन "वहश्च" ३।२।६४ इति ण्विरेव भवति॥